पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः।

अनाद्यनन्तकालप्रवाहे अपरिमिततत्तत्कल्पवृत्तनानाविधतञ्चरितावगम्योत्कर्षस्य एकैकगुणस्य प्रान्त एव श्रान्ताः, तावच्चरितकोठ्यंशमात्रस्यापि कार्त्स्न्येन निबन्धुमशक्यत्वात् । तस्य निजनिखिलगुणवत्तया पौष्कल्येन वर्णने मनुष्यादिषु सन्तमपि गुणलेश वर्णयितुमशक्ताः क्षुद्राः श्राम्यन्तीति किमु वक्तव्यमिति। अत्र कवेः काव्यारम्भे स्वविनयाविष्करणाय श्शक्तिप्रतिपादने प्रस्तुते सामान्यमभिहितमिति, अप्रस्तुतात्सामान्यात्प्रस्तुतविशेषप्रतीतेः अप्रस्तुतप्रशंसा। किमुतेति कैमुतिकन्यायोपन्यासात् अर्थापत्तिः। निगमवन्दिन इत्यभेदारोपात् रूपकम् । एतेषां च अलङ्काराणां परस्परानुप्राणितत्वेन सकरः। यद्यपि निगमवन्दिन इत्यत्र 'उपमितं व्याघ्रादिभिः' इति सूत्रेण निगमा वन्दिन इवेति उपमितसमासोऽपि सभवति । तथापि श्रमसम्बन्धानुरोधात् उत्तरपदार्थप्रधानो मयूरव्यसकादिसमास एवेति रूपकनिर्णयः । उपमितसमासे हि पूर्वपदार् प्राधान्यात् तत्र मुख्यार्थश्रमसबन्धो न स्यात् ॥ २ ॥

शक्तया शौरिकथास्वादः स्थाने मन्दधियामपि ।
अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥३॥

इममाक्षेप समाधत्ते-शक्त्येति । मन्दधियामल्पबुद्धीनामपि । शक्त्या यावच्छक्ति । शौरिकथास्वादः शूरस्य वसुदेवपितुरपत्य शौरिः कृष्णः, बाह्रा देराकृतिगणत्वादिञ्प्रत्ययः ‘एको गोत्रे' इति नियमात् व्यवहितापत्येऽपि परमप्रकृतेरेव प्रत्ययः। तस्य कथाया आखादः निबन्धनरूपः । स्थाने उचितः । 'स्थाने म्यादुचितेऽव्ययम् ।' इति रत्नमाला। तत्र दृष्टान्तमाह अमृतं यदि लभ्येत, मानवैः किं न गृह्येत नाखायेत आखाद्यतैवेत्यर्थः । 'हेतुहेतुमतोर्लिङ्' । अयं भावः-अशक्येऽपि कार्त्स्न्येन भगवद्गुणवर्णने यावती बुद्धेःप्रसरणशक्तिस्तावद्वर्णनं मन्दधियामपि युक्तमेव ; न तु यावद्वर्णना