सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
यादवाभ्युदये


शक्त्या शक्यांशोऽप्युपेक्षणीयः । न हि बहमृतं मानवैर्न लभ्यत इति किविधाप लब्धं तैर्नास्वाद्यत इति । यद्वा एवं भावः । यथा अमृतं लभ्यते चेन्मनुष्या देवाहमिदमिति स्वयं न त्यजन्ति, किन्तु लब्धमाखादयन्त्येव ; एवं मन्दबुद्धितया भगवद्गुणसाकल्यवर्णनानधिकृता अपि रसज्ञातिप्राझ- कृत्यमिदमिति नोदासते ; किन्तु शक्यांश वर्णयन्त्येव । अतो ममापि यथामति भगवच्चरितवर्णनप्रवृत्तौ न कोपि दोष इति । अत्रापि पूर्ववत् अप्रस्तुतप्रशंसा। उपमानोपमेययोर्भगवचरितामृतयोस्सामान्यधर्मयोः कचिन्निबन्धनमन्यत्रास्वादनमिति भिन्नयोर्बिम्बप्रतिबिम्बभावेन वाक्यद्वयेन निर्देशात् दृष्टान्तः । आस्वादशब्देन निबन्धनस्य निगीर्याध्यवसानात् भेदे अभेदरूपातिशयोक्तिश्च अलङ्कार. । निगीर्याध्यवसानेन च तृष्णातिरेक- विषयत्वं लक्षणामूल व्यङ्ग्यम् । तच्चोक्तदृष्टान्तस्योपस्कुरुत इति गुणभूत- व्यङ्ग्यभेदः ॥ ३ ॥

वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते ।
अन्येऽपि कवयः कामं बभूवुरनपत्रपाः॥४॥

वसुधेति । वसुधाश्रोत्रं वल्मीकम् ‘वामलूरुश्च भूश्रवः' इति वल्मीकपर्यायेषु रत्नकोशः। 'श्रोत्रं येतत् पृथिव्याः यद्वल्मीकः' इति श्रुतिः। तत्र जातो वसुधाश्रोत्रजः वाल्मीकिः तस्मिन् । 'सप्तम्यां जनेर्डः' इति डप्रत्ययः। तस्मिन् प्रसिद्धे यस्तादृशमादिकाव्यं निर्मम इति भावः । व्यासे च महा- भारतनिबन्धरि । हृदयस्थिते मनसि स्फुरति सति । अन्येऽपि तदुभय- व्यतिरिका अपि । काममत्यर्थम् । अनपत्रपाः रामायण महाभारतं च दृष्ट्वा स्वप्रवन्धान पश्यन्तः कथं नापहसिष्यन्तीति परेभ्यस्त्रपया रहिता एव । 'मन्दाक्षं हीनपा ब्रीज लज्जा सापत्रपान्यतः' इत्यमरः । कवयः काम्यस्तो बभूवुः। व्यासबास्मीकिप्रबन्धौ दृष्टापि तदन्येषां स्वयं प्रबन्धनिर्मामे-