पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
यादवाभ्युदये


वदि अभिवादनस्तुत्योरिति धातोरिह स्तुत्यर्थः परिगृह्यते । तथा च तत्त- च्चरितमुखेन भगवद्दिव्यगुणानुसकीर्तनरूपतया स्तुत्यात्मकस्य काव्यस्या- रम्भः प्रतिज्ञातो भवति । इदञ्च पद्यं युग्मविपुला वृत्तं । पथ्या- वक्रमित्येके । “यस्यां लस्सप्तमो युग्मे सा युग्मविपुला मता ।” "युजोर्जेन सरिद्भर्तुः पथ्यावक्रं प्रकीर्तितम् ।” इत्युभयोरपि विच्छित्ति, विशेषादिति ॥१॥


यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः।
यथावद्वर्णने तस्य किमुतान्ये मितपचाः॥२॥

ननु अपरिमेयानन्तकल्याणगुणस्य भगवतो गुणकथनं कथं शक्य- मित्याक्षिपति- यदेकैकेति । निगमाः वेदा एव वन्दिनः सन्तमसन्त वा कमपि गुणमवलम्ब्यावश्य वन्दन्ते स्तुवन्तीति वन्दिनः स्तुतिपाठकाः । वन्दतिधातोस्स्तुतिवृत्तेः ‘आवश्यकाधमर्ययोर्णिनिः' इत्यावश्यकार्थे णिनि प्रत्ययः । यदेकैकगुणप्रान्ते यस्य भगवतः एकस्यैकस्य गुणस्याग्रभागे। श्रान्ताः श्रमं प्राप्ताः। स्तोतु प्रवृत्ता एकमपि गुण कार्त्स्न्येन वर्णयितुमशक्नु- वन्तः प्रारम्भ एव प्रतिहता इत्यर्थः । तस्य भगवतः । यथावत् यथार्हम्, वर्णने सम्यग्गुणवर्णने । अन्ये मितंपचाः क्षुद्राः । किमुत ते न शक्ता इति किमु वक्तव्यमित्यर्थः । एकैकेति वीप्सायां द्विरुक्ति: “एक बहुव्रीहिवत्" इति बहुव्रीहिवद्भावात् सुपो लुक् । यथावदिति यथाशब्दात् “तदर्हम्” इत्यर्हार्थ वतिप्रत्ययः । मितम्पचा इत्यत्र 'मितनखे च' इति पचधातोः खश् । 'अरुर्द्विषदजन्तस्य मुम्' इति मुमागमः । 'कदर्ये कृपणक्षुद्रकि- पचानमितंपचाः ।' इत्यमरः । अयं भावः । 'नकिरिन्द्र त्वदुत्तरः, विश्व- स्माद्रुद्र उत्तरः' इत्यादिप्रकारेण इन्द्रादिदेवतान्तरेष्वसन्तमपि गुण- मारोप्य स्तवनशीला वन्दिकल्पा वेदा अपि यस्य गुणान् स्तोतुं प्रवृत्ताः