पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२६
यादवाभ्युदये

त्यर्थः । परमकारुणिकस्य प्रणिपातमात्रानपनाद्यो नास्ति प्राणिनां द्रोह इति भावः ॥ १०३ ॥ लोलापतच्चरणलीलाहतिक्षरितहालाहले निजफण नृत्यन्तमप्रतिघकृत्यं तमप्रतिममत्यन्तचारुवपुपम् । देवादिभिः समयसेवादरत्वरितहेवाकघोपमुखरै दृष्टावधानमथ तुष्टाव शोरिमहिरिष्टावरोधसहितः।। लोलेति । अथ अनन्तरम। अहिः कालियः । इष्टै अवरोधैः अन्तःपुरस्त्रीभि. सहितः सन् । अवरोधशब्दन तात्स्थ्यादवरोधस्त्रियो लक्ष्यन्ते । लालस्य स्वनृत्तेन चलस्य आपतत. चरणस्य लालाहत्या लीलयाभिघातन क्षारतहालाहले उद्गाविषे । निजफणे । नृत्यन्तम् ।। अप्रतिघकृत्य प्रत्याहतिरहितकृत्यम् । 'प्रतिघो रुटप्राघातौ' इति वैजयन्ती । अप्रतिम असदृशम् । अत्यन्तचारुवपुषम् । समयसेवादरत्व. रितहेवाकघोषमुखरैः पराक्रमसमये सेवायामादर त्वरितेन हेवाकघोषण स्वच्छन्दस्तुतिघोषेण शब्दायमानै । ‘हेवाकः स्वाच्छन्द्यम्' इति चक्रवर्ती । देवादिभि. देवासुर गन्धर्वप्रमुख. । दृष्टावधान दृष्टनृत्तप्रणिधानम् । शौरिम् । तुटाव । अत्र - विविधधववनानागगर्धधनाना विवितत गगनानाममजजनाना इत्यादौ एकवर्णावृत्तेरपि यमकत्वमङ्गीकुर्वतो वामनम्य मते यमकालङ्कारः । मतान्तरे त्वनुप्रासः ॥ १२४ ॥ हरिचरणसरोजन्यासधन्योत्तमाङ्गः शमितगरुडभीतिः सानुबन्धः स नागः । युगविरतिदशायां योगनिद्रानुरूपां शरणमशरणः सन्माप शय्यां तदीयाम् ॥१२५॥