पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

चतुर्थः सर्गः । २२५ तदुत्तमामिति । अनन्तः कृष्णः । 'अनन्तो नागराडिष्णुः' इति विश्वः । तस्य कालियस्य उत्तमा शिरः । रङ्ग नृत्तस्थानम् । परिकल्प्य । तरङ्गनिष्पन्नमृदङ्गनाद तर निष्पन्नो मृदङ्गनादो यथा भवति तथा। त्रिदशैः देवैः । प्रशस्यमानः उपश्लोक्यमानः सन् । अव्याहता अप्रतिहताम् । आरभटी नटना टीम् । अकार्षीत् ॥ १२१ ॥ एकेन हस्तेन निपीड्य वालं ___पादेन चैकेन फणामुदग्राम् । हरिस्तदा हन्तुमियेष नागं स एव संसारमिवाश्रितानाम् ॥ १२२ ॥ एकेनेति । हरिः । तदा । एकेन वामेन हस्तेन । वाल निपीड्य । एकेन पादेन दक्षिणपादेन । उदग्रां उन्नताम् । फणां च निपीड्य । नाग कालियम् । स कृष्ण एव । आश्रितानां ससारमिव । हन्तुम् । इयेष ॥ स पन्नगीनां प्रणिपातभाजी द्रवीभवन्दीनविलापभेदैः । प्रसादितः प्रादित भर्तृभिक्षा किमस्य नः स्यादपदं दयायाः ॥ १२३ ॥ स इति । प्रणिपातभाजां प्रणतिजुषाम् । पन्नगीनां कालियपत्नीनाम् । दीनविलापभेदैः कातरपरिदेवनविशेषैः । द्रवीभवन् करुणापरवशो भवन् । प्रसादितः प्रणिपातापराधसहनप्रार्थनादिना प्रसादं प्रापितः। स कृष्णः । भर्तृभिक्षा ताभिः प्रार्यमानाम् । प्रादित दत्तवान् । प्रपूर्वाद्दालो लुङ् । कथमतिद्रोही विसृष्ट इत्यत आह-किमिति । नः अस्माक संसारिणां मध्ये । अस्य । दयायाः । अपदं भविषयः । किं स्यात् न किमपी. 15