पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

चतुर्थः सर्गः। २२७ हरीति । हरेः चरणसरोजन्यासेन धन्योत्तमाङ्गः कृतार्थमूर्धा । शामतगरुडभीतिः भगवता क्षपितगरुडभयः । सानुबन्धः अनुयायिना पुत्रमित्रकलत्रादिना सहितः । 'दोषोत्पादेऽनुबन्धः स्यात्प्रकृत्यादिषु नश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने' इत्यमरः । स नाग. कालियः । युगविरतिदशायां युगान्तकाले । योगनिद्राया अनुरूपां उचिताम् । तदीयां शय्यां समुद्रमित्यर्थः । अशरण. गत्यन्तररहित सन् । शरण प्राप आवासस्थान जगाम । 'शरण गृहरक्षित्रोः' इत्यमर । पुरा समुद्र स्थित कालियो गरुडेन निर्जितस्तद्भीत्या सौभरिशापाद्गरुडेनानाक्रमर्णाय कालिन्दीह्रदमध्युवास । तत. कृष्णेन ततोऽपनीतभय. समुद्र प्रापेति पौराणिकी कथा ॥ १२५॥ विविधमुनिगणोपजीव्यतीर्था विगमितसर्पगणा परेण पुंसा। अभजत यमुना विशुद्धिमयां शमितबहिर्मतसंप्लवा त्रयीव ॥ १२६ ।। विविधेति। विविधानां मुनिगणानां उपजीव्यानि निषेव्याणि तीर्थानि जलावतार प्रदेशा यन्याः सा । पक्षे विविधमुनिजनापजीव्यानि तानि खागभूतानि मामांसादिशास्त्राणि यस्याः सा । यमुना । परेण पुसा परमा त्मना कृष्णेन । विगमितसर्पगणा अपसारितभुजङ्गकुला सती । पक्ष परेण उत्कृष्टेन वेदार्थनिधारणनिपुणेन पुसा । शमितबहिर्मतसप्लवा अपमिनपाषण्डसकरा । त्रयी त्रिवेदीव । अग्र्यां उत्कृष्टाम् । विशुद्धिम् । अभजत आप । 'तीर्थ मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावन । पात्रोपायावतारेषु स्त्रीपुष्पे योगयज्ञयोः' इति वैजयन्ती । पुष्पिताग्रा वृत्तमेतत् ॥१०६ ।।