पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२०
यादवाभ्युदये

अदृश्यताधोतितमन्तरिक्षं पीतान्धकारैरिव तारकौघैः ॥ ११४ ॥ प्रसक्तेति । प्रसक्तकृष्णद्युतिभिः अनुषक्तकृष्णदेहकान्तिभिः। तदीयैः यामुनैः। प्रतूर्ण उत्पतितैः कृष्णानपातवेगाझाटत्युत्थितैः । पृषत्कणैः बिन्दुकणैः । आद्योतित भासितम् । अन्तरिक्षम् । पीतान्धकारैः प्रस्तत. मोभिः । तारकौघैः नक्षत्रगणैः । आद्योतितमिव । अदृश्यत । नीलवर्णाया अपि यमुनाया उत्थिताः पृषत्कणा धवला भवन्तस्तारा इव, तदनुषक्ताः कृष्णकान्तिकन्दला नक्षत्रतेजोभिः पीता अन्धकारशकला इव चासन्नित्युत्प्रेक्षा ॥ ११४ ॥ उदग्रसंरम्भमुदीक्ष्य भीता स्ताक्ष्यध्वजं ताय॑मिवापतन्तम् । प्रपेदिरे सागरमाश्रितौघाः ___काकोदराः कालियमावशेषाः ॥ ११५ ॥ उदग्रेति । आश्रितौघा: आश्रितयमुनाप्रवाहा । उदग्रसरम्भ अतिशयितकोपम् । 'सरम्भ सभ्रमे कोपे' इति शब्दार्णव. । तायमिवापतन्त गरुडमिव भुजङ्गसहारार्थमापतन्तम् । ताक्ष्यध्वज कृष्णम् । अवेक्ष्य । भीता । काकोदरा: फणिनः । कालियमावशेषाः कालिय एव शेषो येषां तथाभूताः सन्त । सागरम् । प्रपेदिरे । कालियमेक विना सर्वेऽपि समुद्र प्रापुरित्यर्थः । कालिय एव कालियमात्रमिति विग्रहे सुप्सुपा इति समासः ॥ ११५॥ अथाम्भसः कालियनागमुग्रं व्यात्ताननं मृत्युमिवोजिहानम् ।