पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

चतुर्थः सर्गः । २२१ भोगेन बनन्तमपोह्य शौरिः प्रह्वीकृतं तत्फणमारुरोह ।। ११६ ॥ अथेति । अथ अन्येषां पलायनानन्तरम् । शौरि: । उग्र क्रूरम् । व्यात्तानन दशनाय विवृतास्य सन्तम् । मृत्युमिव । अम्भसः उजिहान प्रवाहादुद्गच्छन्तम् । भोगेन बध्नन्त उद्गमनसमये स्वकायेन बनन्तम् । कालियमिति नाग बहुफण सर्पम् । अपोह्य यथा बन्धु न शक्नोति तथा निरस्य । प्रह्वीकृत अवनम्रीकृतम् । तस्य कालियस्य फणम् । आरुरोह । 'नागा बहुफणाः सर्पाः' इति यादवः । · सहस्रफणः कालिय' इति भागवते ॥ ११६ ॥ सद्यो महानीलमयीं मुकुन्दः सपद्मरागामिव पादपीठीम् । क्रामन्फणां कालियपन्नगस्य ग्रस्तोदितो भानुरिवावमासे ।। ११७ ।। सद्य इति । कालियपन्नगस्य । फणाम् । महानीलमयी ऐन्द्रनीलीम् । सपद्मरागां मध्ये पद्मरागखचिताम् । पादपीठीमिव । फणाया नैल्यात्फणारत्नलौहित्याच्चैवमुक्तिः । सद्यः तस्मिन्क्षणे । कामन् । मुकुन्दः । प्रस्तोदितः राहुणा प्रस्त एवोदितः। भानुरिव । आबभासे तत्फणामाक्रम्यव प्रवाहादुन्मज्जनमनुसन्धाय प्रस्तोदित इति विशेषितम् ॥ ११७ ।। . फणामणीनां प्रभयोपरक्त खेलन्प्रभो चक्रिणि चक्रपाणिः।