पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१९
चतुर्थः सर्गः।

निपत्येति । मन्दरपोतरम्यः मन्दराचलडिम्भ इव रमणीयः । 'पोतः पाकोऽर्भको डिम्भः' इत्यमरः । कृष्ण इति शेषः । सक्षिप्तपयोविकल्पे संकुचितसमुद्रतुल्ये । महाह्रदे महति कालियाक्रान्ते ह्रदे । निपत्य । विषव्यपोहात् कालियविषनिरसनात् । अमृत जलम् । ‘पयः कीलालममृतम्' इत्यमरः । स्वादुमधुरः उदयः उद्गमो यम्य तथाभूतम् । पक्षे कालकूटस्य व्यपोहात् पीयूष मधुरप्रादुर्भावम् । विधातु कर्तुम् । सिन्धु नदी पक्षे समुद्रम् । क्षोभयति स्म । 'देशे नविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः ।। ११२ ॥ कृताहतिः कृष्णनिपातवेगा दानद्धरूपा विततैस्तरङ्गैः। सर्पापसारौषधिसंप्रयुक्ता भेरीव सा भीमतरं रराम ॥ ११३ ॥ कृताहतिरिति। कृष्णस्य निपानवेगात् । कृताहति कृतजलाभिघाता। विततैः विस्तृतैः । तरङ्गैः । आनद्धरूपा चमभिरिव समन्तापिनद्धाकारा । सा यमुना । सर्पापसारौषधिसप्रयुक्ता सर्पाणां यमुनावामिनामपमारस्योषध्या अपसर्पणार्थेनौषधेन ससृष्टा । भरीव । भीमतरम अनिभीषण यथा तथा । ररास शब्दायते स्म। औषधविशेषरूषितामा भेर्यास्ताउने तन्छन्द. श्रवणेन सर्पाः पलायन्त इति प्रसिद्धिः । भैयपि तरङ्गाकारेश्चर्मभिगनद्धा आहता च शब्दायत इति भावः ॥ ११३ ॥ प्रसक्तकृष्णद्युतिभिस्तदीयैः • पृषत्कणैरुत्पतितैः प्रतूर्णम् ।