पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१८
यादवाभ्युदये

निश्चित्य, अहीन्द्रं नागराजम् । आस्कन्दितु अभिवितुम् । विषामिना तस्य विषानलेन । मुर्मुरितप्रताने सञ्जातमुर्मुरविस्तारे । 'मुर्मुरस्तु तुषानल.' इति वैजयन्ती । ततस्तारकादेराकृतिगणत्वादितच्प्रत्ययः । विरोचनस्य सूर्यस्यापत्य स्त्री वैरोचनी यमुना तस्याः तीरवनावकाशे तटकाननान्तरे । काष्ठाकृति विषाग्निना पत्रपुष्पादिषु दग्धेषु स्थाणुमात्ररूपम् । कञ्चन । नीपवृक्ष कदम्बतरुम् । अध्यरुक्षत् आरोहति स्म ॥ मधुद्रवैरुल्बणहर्षबाष्पा रोमाञ्चिता केसरजालकेन । पत्राङ्कुरैश्वित्रतनुश्वकाशे कृष्णाश्रिता शुष्ककदम्बशाखा ॥ १११ ॥ मधुद्रवैरिति । कृष्णेनाश्रिता । शुष्कस्य कदम्बस्य शाखा । मधुद्रवेः मकरन्दरसैः। उल्बणहर्षबाष्पा प्रव्यक्तानन्दबाष्पा । 'स्फुट प्रव्यक्तमुल्बणम्' इत्यमर. । केसर जालकेन किञ्जल्कनिवहेन । रोमाश्चिता सजातरोमाञ्चा । पत्राङ्कुरैः दलकदलै:, पत्ररेखाभिरित्यपि प्रतीयते । तैः चित्रतनुश्च सती । चकांश भगवत्सपर्कात्सद्यः पुष्पपल्लवादिसमृद्धिमती बभासे इत्यर्थः । मधुव्वादिष्वानन्दबाष्पत्वाद्यागपात्कदम्बशाखायां नायि - कात्वरूपण गम्यत इत्येकदेशविवर्तिरूपकालङ्कारः ॥ १११ ॥ निपत्य संक्षिप्तपयोधिकल्पे महारुद मन्दरपोतरम्यः। विषव्यपोहादमृतं विधातुं स्वादूदयं क्षोभयति स्म सिन्धुम् ॥ ११२ ।।