पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१७
चतुर्थः सर्गः।

एकदा । रामेण बलदेवेन विनैव । सवत्सं वत्समहितम् । धेनुगणम् । सचारयन् । विभुः वनश्रिया काननश्रिया । दूरविलोभिताक्षः दूरे प्रलोभितलोचनः सन् । अदृष्टपूर्व पूर्वमदृष्टम् । सुम्सुपेति समासः । कचित्कच्छ दूरस्थ यमुनायाः कचिदनूपदेशम् । ययौ। 'जलप्रायमनूपं स्यात्पुसि कच्छस्तथाविधः' इत्यमरः ॥ १०८ ॥ यदृच्छया चारितधेनुचक्रः कूलान्तिके विश्वजनानुकूलः । कलिन्दजां कालियपन्नगस्य वेलोद्गमैः कजलितां ददर्श ॥ १०९ ॥ यदृच्छयेति । यदृच्छया स्वच्छन्देन । 'स्वच्छन्द निर्निमित्त च यदृच्छेत्यभिधीयते' इति हलायुध.। कूलान्तिके यमुनातीरसमीपे । चारितधेनुचक्रः सचारितधेनुगण । 'चक्र सैन्ये जलावर्ते रथाङ्गे चयराष्ट्रयोः' इति वैजयन्ती । विश्वजनानुकूल. कृत्स्नस्य जनस्य हितैषी कृष्णः । कलिन्दजा यमुनाम् । कालियपनगस्य कालियाख्यमहानागस्य । श्वेलोद्गमैः विषोद्गमै. । कलितां कजलीकृता, मान्द्रगरलद्रव्यसयोगेन मषीवद्धनीभूताम् । ददर्श ॥ १०९ ॥ विषाग्निना मुर्मुरितमताने वैरोचनीतीरवनावकाशे। अहीन्द्रमास्कन्दितुमध्यरुक्ष काष्ठाकृति कंचन नीपवृक्षम् ॥ ११०॥ विषाग्निनेति । कृष्णः तत्र जनानां हिंसकस्य कालियस्यावस्थान