पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१४
यादवाभ्युदये

प्रत्युजग्मुरिति मदनबाणानामपि तदनुगामितया प्रत्युद्गन्तृत्वमुत्प्रेक्ष्यते । तत्र च निमित्तं मदनबाणप्रेरितानां तासां लोचनान्तप्रत्युत्पतनानन्तर कृष्णस्यापि मदनबाणविद्धतेति भावः । यद्वा यथा कैश्चिद्वाधकैरनुद्रुता बाधपरिहाराय जवाद्गत्वा कचन समर्थ शरण गृह्णन्ति, एव तद्विश्लेषसमये मदनबाणैर्बाधकैरनुद्रुता. सुलोचनास्त प्रत्यावृत्तमुपलभ्य तद्बाधनिवर्तनाय शरण जग्मुरिति श्लोकतात्पर्यार्थ. ॥ १०२ ॥ व्रजोपकण्ठे विबुधानुभाव्यो गोपीजनेरात्मगुणावदातैः। समावृतो नन्दसुतश्चकाशे तारागणैरिन्दुरिवान्तरिक्षे ॥ १०३ ।। बजेति । विवुधानुभाव्यः विदुषां येयः। इन्दुपक्षे प्रथमा पिबते वह्निरित्यादिकमेण देवानां निषेव्यः । नन्दसुत. कृष्णः । व्रजोपकण्ठे गोकुलसीप । आत्मगुणावदाने स्वस्य पुण्यश्लोकत्वादिगुणेहेंतुभि अ. भिसरणे क्रियमाणेऽपि विशुद्धः । तारापले आत्मगुणनिजकान्तिभिरिब सितैः । 'अवदातः सिते पीते विशुद्धे प्रवरेऽपि च' इति विश्व । गोपीजनै । समावृतः सन् । अन्तरिक्षे। तारागणेः । समावृतः इन्दुग्वि । चकाशे ॥ १०३ ॥ हत्वा सयूथं तृणराजषण्डे रामाच्युतौ रासभदैत्यमुग्रम् । अतोषयेतां भृशमात्मभृत्या स्वाद्यैः सुधापिण्डनिभैः फलौघैः॥ १०४॥