पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१३
चतुर्थः सर्गः।

दिव्यौषधम् । मुनीनां ऋषीणामपि । अनुध्येयतमं अतिशयेनानुध्येय आसीत् । अत्र दयितोपभोगे प्रसिद्धरसायनवैलक्षण्यविशिष्टरसायनत्वारोपरूपो रूपकभेदः । स च विरोधाभासगर्भः । लोके ह्युपभोगो भाव्यमानो भावुकत्रोद्दीपनविभावतया रागादिकमुत्पादयति । अय तु भाव्यमानो रागादिक क्षपयतीति विरोधस्य भगवंचरितानुध्यानरूपतया तत्समाधानस्य च सत्त्वात् । रागादिरोगप्रतिकारभूतमिति विशेषणेन ‘भजते तादृशी क्रीडा यां श्रुत्वा तत्परो भवेत्' इति भागवतोक्तरीत्या भगवतो गोपिकामभोगस्य लोकानुग्रहार्थत्वमपि दर्शितम् । रागिणो हि सभोगपदश्रवणे स्वयमेव कुतूहलिनः प्रवर्तन्ते । तच्च श्रवणं भगवद्रूपविषयमाहात्म्यादन्तःकरणशुद्धिमाधाय रागादिक क्षपयति । अत एव विषयमाहात्म्यान्मुक्तिजनकतया मुनीनामप्यनुध्येयता ॥ १०१॥ अनुद्रुता नूनमनङ्गवाणैः सुलोचना लोचनभागधेयम् । प्रत्यग्रहीषुः प्रतिसंनिवृत्तं त्यक्तेतरैरक्षिभिरात्मना च ।। १०२ ।। अनुद्रता इति। सुलोचनाः गोपसुदृशः । प्रतिसनिवृत्त नीलां लब्ध्वा विदेहदशात्प्रत्यावृत्तम् । लोचनानां भागधेय भाग्यभूत त कृष्णम् । नूनम् । अनङ्गबाणे । अनुद्रुताः अनुसृताः सत्यः । त्यकेतरैः विसृष्टविषयान्तरेः । अक्षिभिः। आत्मना मनसा च, त्यक्तेतरेणेति वचन - विपरिणामेन विशेषणानुषड्गः । प्रत्यग्रहीषुः प्रत्युद्गमनेन अङ्गीचक्रुः । यथा देशान्तरात्प्रतिसनिवृत्त बन्धु तदीयाः स्वकीयैः कैश्चिदनुगन्तृभिः सभूताः प्रत्युद्गच्छन्ति, एवं कृष्णं लोचनैः प्रत्युद्गच्छन्त्योऽङ्गना मदनबाणैरनुद्रुताः