पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१२
यादवाभ्युदये

करणेति । मुकुन्दः । दानवदुर्वृषाणां असुररूपाणां दुष्टवृषभाणाम् । दम्भोलिकठोरतुङ्गान् वज्रकठिनानुन्नतांश्च । पृथून देहान् । करेण विमृद्य नूनम् । प्रियाया नीलाया स्तनस्पर्शविहारस्य योग्यां अभ्यासम्। विदधे। 'योग्याभ्यासार्कयोषितोः' इति विश्व. । कठिनानां वृषभवपुपां विम. दनमतिकठिननीलाकुचस्पर्शमहनाय प्रथमाभ्यास इवाभूदित्युत्प्रेक्षा ॥ आत्मीयपर्यङ्कभुजङ्गकल्पा वक्षेप्यरक्षापरिघौ पृथिव्याः। नीलोपधानीकरणात्स मेने भूयिष्ठधन्यौ भुजपारिजातौ ॥ १० ॥ आत्मीयेति । स कृष्णः । आत्मीयपर्यभुजङ्गकल्पौ स्वकीयमञ्च - भुजङ्गस्य शेषस्य सदृशौ। पृथिव्याः । अक्षेप्यरक्षापरिघौ अप्रतिक्षेप्य रक्षार्थीगलरूपौ। 'परिघो योगभेदेऽस्त्रे मुद्गरेऽर्गलघातयोः' इति विश्वः । भुजपारिजातौ पारिजाताविव भुजौ। नीलाया आश्लेषसमये उपधानीकरणात् । भूयिष्ठधन्यौ भृश कृतार्थौ । मेन इति तस्यां प्रेमातिशयोक्तिः॥ रागादिरोगप्रतिकारभूतं रसायनं सर्वदशानुभाव्यम् । आसीदनुध्येयतमं मुनीनां दिव्यस्य पुंसो दयितोपभोगः ॥ १०१॥ रागादीति। दिव्यस्य दिवि परमपदे भवस्य । पुंसः कृष्णस्य । दयितोपभोग एव । सर्वदशानुभाव्य न तु प्रसिद्धरसायनवत्समयविशेष प्रतीक्ष्य सेव्यम् । रागादिरोगाणां प्रतीकारभूत भेषजत्वं प्राप्तम् । रसायन