पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२११
चतुर्थः सर्गः।

वीयकर्मबलात्कृष्णस्य स्वस्वपतिरूपानेकमोगेऽपि तासां धर्मपथभ्रशो नासीदित्यर्थः । आतेत्यत्राङ्पूर्वात् दृट् आदरे इति धातोलृट् ॥ ९७ ॥ दिशागजानामिव शाकराणां ___ शृङ्गाग्रनिर्मिनशिलोच्चयानाम् । म तादृशा बाहुबलेन कण्ठा निपीडव लेभे पणितेन नीलाम् ॥ ९८ ॥ दिशागजानामिति । सः कृष्णः । दिशागजानां दिग्गजानामिव । शृङ्गाग्रनिर्भिनशिलोचयानां विषागाग्रविदलितपर्वतानाम । शाक्कराणां वृषभाणाम । 'शाकरो वृषभे च्छन्दोविशेष शाक्कर मतम्' इति विश्व । कण्ठान् । तादृशा तथाभूतेन, असुरमर्दनादिषु प्रमिद्धेन । बाहुबलेन निपीड्य, कण्ठनिपीडनेन तान्मायित्वेति यावत् । पणितेन वृषभमदन. रूपेण शुल्केन । नीलां नाम कन्यां लेभे । एव हरिवशे कथा-विदेहनगरे यशोदानुजः कुम्भको नाम गवांपतिरासीत् । तस्य व्रजे कालनेमेरसुरस्य सुताः सप्त प्राग्भगवता निर्जिताः पूर्ववैरमनुस्मृत्य कृष्णापचिकीपया वृषभरूपेण न्यवसन् । तैश्च गोकुलवित्रासनसस्यभक्षणागु पदवेषु क्रियमाणेषु स्वय दमयितुमशक्येषु च तेषु य एषा दमयिता तस्मै स्वकन्यां नीलां दास्यामीति कुम्भकः प्रतिजज्ञे । तत्र च कदाचित्कृष्णः समागन्य तान्मारयित्वा नीला जग्राहेति ॥ ९८ ॥ करेण दम्भोलिकठोरतुङ्गा न्देहान्पृथून्दानवदुद्देषाणाम् । विमृद्य नूनं विदधे मुकुन्दः प्रियास्तनस्पर्शविहारयोग्याम् ।। ९९ ॥ THE KUPPUSUAM! CASTRI RESEARCH !!1!:JTE MADRAS.4