पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
यादवाभ्युदये

गोपिकासंभोगमिच्छति स्मति विरोधः, प्राचीनतदीयतपःफलप्रदानार्थत्वेन तत्समाधान चेनि विरोधाभासालङ्कारः ॥ ९५ ॥ विजृम्भमाणस्तनकुमलानां व्यक्तोन्मिषद्विभ्रमसौरभाणाम् । मधुव्रतत्वं मधुराकृतीनां लेभे लतानामिव वल्लवीनाम् ।। ९६ ॥ विजृम्भमाणेति । सः कृष्णः । विजृम्भमाणौ स्तनौ कुमले इव यासां, लतापक्षे स्तनसदृशानि कुङ्मलानि यासामिति सगासः । व्यक्त स्फुट उन्मिषन विकमन् विभ्रम. सौरभमिव यासाम् , पक्षे पूर्ववन्मभ्यमपदलोपिसमास । मधुराकृतीनां मनोजरूपाणाम् । वल्लवीनां लतानामिव । मधुव्रतत्वम् । लेभे प्रपेदे । मधुकरो वल्लरीरिव वल्लवीरुपभोक्तु प्रवृत्त इत्यर्थः ॥ ९ ॥ अतिप्रसङ्गादवधीरयन्त्या प्राचीनया संयमितो नियत्या। पाश्चालकन्यामिव पञ्चभुक्तां धर्मः सतीराहत तादृशीस्ताः ॥ ९७ ॥ अतिप्रसङ्गादिति । तादृशी: कृष्णमभिसरन्तीः। ताः । अतिप्रसगात् अवधीरयन्त्या एकत्रातिप्रवृत्तिर्जातेति अन्यत्रापि प्रसङ्गः अतिप्रसङ्गः ततः क्षिपन्त्या । प्राचीनया नियत्या प्राग्भवायेन निजतपोरूपेण कर्मणा । सयमितः नियमितः । धर्मः । पञ्चभिः पाण्डवैः भुक्ताम् । पाञ्चालकन्यां द्रौपदीमिव । सतीः। आहत पतिव्रता इत्याद्रियते स्म । प्राग्भ