पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१५
चतुर्थः सर्गः।

हत्वेति । रामाच्युतौ । तृणराजषण्डे तालवने । 'तृणराजाह्वयस्तालः' इत्यमरः । उग्रं क्रूरम् । सयूथ यूथेन रासभरूपेण बन्धुवर्गेण सहितम्।रासंभदैत्य रासभरूपधारिणं धेनुकाख्य दैत्यम् । हत्वा धेनुकं रामस्तद्वन्धुवर्गमच्युत इत्येवं प्रकारेण हत्वा । स्वाद्यैः स्वादाहरतिमधुरैः । अत एव, सुधापिण्डनिभैः अमृतपिण्डतुल्यैः। फलौधैः फलवृन्दैः, धेनुकाधिष्ठित. तालवनोद्भवै । आत्मभृत्यान् आत्मानुचरान् गोपालकादीन् । भृशं अतो. षयेतां अत्यन्त तुष्टानकुरुताम् ॥ १०४ ॥ कदाचिदासादितगोपवेषः क्रीडाकुले गोपकुमारबृन्दे। स्कन्धेन संगृह्य बलं बलीया दैत्यः प्रलम्बो दिवमुत्पपात ! १०५ ।। कदाचिदिति। आसादितगोपवेषः स्वीकृताभाराकारः, रन्ध्रान्वेषी रामकृष्णयोरनुचरेषु पर्यटन् । बलीयान अतिशयन बली। प्रलम्बो नाम दैत्य. । कदाचित् । गोपकुमाराणां वृन्दे । क्रीडाकुले हरिणाक्रीडनाख्याडाव्यग्रे सति । बल स्कन्धेन सगृह्य, स्वयमपि क्रीडां प्रविश्य स्वय बलभद्रण निर्जित इति तद्वयाजेन त स्कन्धेन गृहीत्वा । दिव अन्तरिक्ष प्रति । उत्पपात ॥ १०५ ॥ पपात भूमौ सहसा स दैत्य स्तन्मुष्टिना ताडितशीर्णमौलिः । महेन्द्रहस्तपहितेन पूर्व वज्रेण निर्भिन्न इवाचलेन्द्रः ॥ १०६ ॥