पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०५
चतुर्थः सर्गः।

सिषेविरे शादलितान्प्रदेशा कृष्णस्य धाम्ना मणिमेचकेन । वसुंधरायामपि केवलायां __ व्यापारयन्तो वदनानि वत्साः॥ ८६ ।। सिषेविर इति । वत्साः । मणिमेचकेन नीलमणिश्यामलन । कृष्णस्य । धाम्ना त्विषा । शाद्वलितान् शालीकृतान् शादेन नवतृणेन हरितीकृतान् । 'शाद्वल: शादहरिते' इत्यमरः । केवलाया तृणरहितायामपि । वसुधरायाम् । वदनानि । व्यापारयन्तः सन्तः, कृष्णधाम्नि तृणभ्रमादिति भाव. । सिषेविरे सेवन्ते म्म ॥ ८६ ॥ नवप्रसूताः स तदा वनान्ते पयस्विनीरप्रतिमानदोहाः । परिभ्रमश्रान्तपदानदूरा त्पत्यागतान्पाययते स्म वत्सान् ॥ ८७ ॥ नवप्रसूता इति । स कृष्णः । नवं यथा तथा प्रसूताः । अप्रतिमानदोहाः असदृशदोहाः बहुक्षीरा इति यावत् । पयस्विनीः दोग्ध्रीः । वनान्ते । परिभ्रमश्रान्तपदान् उल्ललनेन श्रान्तचरणान् । अदूरात्प्रत्यागतान् समीप एव परिक्रम्य ततो गृह प्राप्तान । वत्सान् । पाययते स्म दोहं प्रतिषिध्य वत्सानेव पाययामास । 'गतिबुद्धि-' इत्यादिना द्विकर्मकता ॥ ८ ॥ निविश्य मूलेषु वनद्रुमाणां निद्रायितानां निजतणेकानाम् ।