पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०६
यादवाभ्युदये

अङ्गानि गाः सादरमालिहन्ती रमंस्त संभाव्यगुणाः स्वमातुः॥ ८८ ॥ निविश्येति । कृष्ण । वनद्रुमाणां मूलेषु । निविश्य उपविश्य । निद्रायिनाना निद्राणानाम् । निजतर्णकानां आत्मीयानां सद्योजातवत्सानाम् । अङ्गानि । सादरम । आलिहन्ती: ममन्तानिहन्तीः । गाः । स्वमातुर्यशोदाया अपि । सम्भाव्यगुणाः तयापि श्लाघनीयवात्सल्यगुणाः । अमस्त मन्यते स्म । 'मद्योजातस्तु तर्णकः' इत्यमरः ॥ ८८ ॥ स नैचिकीः प्रत्यहमातपान्ते प्रत्युक्तघोषा इव वत्सनादैः। मधुनि वंशध्वनिभिः प्रयच्छ निनाय भूयोऽपि निवासभूमिम् ॥ ८९ ॥ स इति । सः कृष्णः । प्रत्यह प्रतिदिनम् । आतपान्ते सायसमये । वंशध्वनिभिः वेणुनादैः । मधूनि श्रोत्रपेयानि। प्रयच्छन्सन् । वत्सनादैः प्रत्युक्तघोषा इव गृहमामीप्ये सति गृहबद्धान्वत्सानुद्दिश्य घोषे कृते तेषां शब्दैः प्रत्युत्तरितघोषा इव स्थिताः । नैचिकीः उत्तमगवीः । 'उत्तमा गोषु नैचिकी' इत्यमरः । भूयोऽपि । निवासभूमि गोष्ठम् । निनाय ॥ ८९ ॥ समावजन्विश्वपतिव्रजान्तं गोभिः समं गोपविलासिनीनाम् । उल्लासहेतुः स बभूव दूरा दुद्यन्विवस्वानिव पद्मिनीनाम् ॥ ९० ॥