पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
यादवाभ्युदये



कराम्बुजस्पर्शनिमीलिताक्षा नामर्शनैराकलितार्धनिद्रान् । वत्साननन्याभिमुखान्स मेने प्रहाकृतीन्भक्तिभरावनम्रान् ।। ८४ ॥ कराम्बुजेति । स कृष्णः । कराम्बुजस्पर्शेन । निमीलिताक्षान् सुखाज्झटिति निर्मालितलोचनान् । आमर्शनैः कराम्बुजेन समन्तात्परामर्शः आकलितार्धनिद्रान् । अनन्याभिमुखान् स्वाभिमुखतयैवावतिष्ठमानान् । प्रह्वाकृतीन् निद्रासुखेनावनताकृतीन् । वत्सान् । भक्तिभरेण भक्तयतिशयेन ‘अप्यथातिशयो भरः' इत्यमरः । अवनम्रान् । मेने तथोत्प्रेक्षतेत्यर्थः । वत्मानां स्वभाव ईदृश इति स्वभावोक्तिरलङ्कारः ॥ ८४ ॥ रोमन्थफेनाश्चितसृविभाग रस्पन्दनैरर्धनिमीलिताः। अनादृतस्तन्यरसैर्मुकुन्दः कण्डूयितैर्नितिमाप वत्सः ।। ८५ ॥ गेमन्थेति । मुकुन्दः । रोमन्थर्फनाञ्चितसृक्विभाग. रोमन्थो गोमहिन्यादीनां निर्माणस्य पुनः पुनरुद्गीय भक्षण तदुद्गतेन फेनेनाञ्चिताः पूजिताः । 'अञ्चेः पूजायाम्' इतीडागम. । सहिता इति यावत् , तथाभूताः मृविभागा ओष्टप्रान्तभागा येषां तैः । 'प्रान्तावोष्ठस्य सृक्विणी' इत्यमरः । कण्डूयितैः स्वन कृतकण्डयनैः । अत एव कण्डूयनलाभात् , अस्पन्दनैः पिन्दरहितैः । अर्धनिमीलिताक्षैः कण्डूयनसुखादर्धनिमीलितलोचनैः । अनादृतस्तन्यरसैः । वत्सः । निर्वृति सुखम् । आप । वत्सेषु वात्सल्यातिशयात्कण्डूयनेन तेषां सुखात्स्वयमपि सुखं प्रापेत्यर्थः ॥ ८५ ॥