पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
यादवाभ्युदये

प्रच्छायनिद्रायितधेनुवत्सं प्रौढे निदाघेऽपि बभूव भोग्यम् ॥ ७७ ॥ . अगाधेति । अगाधा अतलस्पर्शिनः कासाराः सरांसि यस्मिंस्तथो. क्तम् । अहीनशष्प समृद्धबालतृणम् । अतीक्ष्णसूर्यम् अतीव्रतपनम् । अचण्डवात प्रीष्मकालीयेन महावातेन रहितम्। 'ग्रीष्मे चण्डानिलोऽनिलः' इति वैजयन्ती। प्रच्छायनिद्रायितधेनुवत्स प्रकृष्टा च्छाया येषु तानि प्रच्छायानि वटमूलादीनि । 'प्रादिभ्यो धातुजस्य-' इत्यादिना बहुव्रीहिः । तेषु निद्रायिता निद्रावन्तो भूता धेनवो वत्साश्च यस्मिन् । लोहितादेराकृतिगणत्वान्निद्राशब्दात्क्यष् । 'गत्यर्थाकर्मक-' इत्यादिना कतरिकः । निद्राशब्दो वृत्तिविषये तद्वति वर्तत इति पदमबरीकारादयः । अथवा निद्रातीति निद्रः । 'आतथोपसर्गे' इति कौर कप्रत्ययः । ततः क्यष । तत् बृन्दावनम् । प्रोढे निदाघऽपि कठोरे प्राध्मेऽपि । भोग्य कासारशोषादिदोषाभावादुपभोग्यम् । बभूव ॥ ७७ ।। न व्याधिपीडा न च दैत्यशङ्का नासीद्वां व्याघ्रभयं च तस्मिन् । स्वबाहुकल्पेन बलेन सार्ध नारायणे रक्षति नन्दलक्ष्मीम् ॥ ७८ ॥ नव्याधीति । तस्मिन् बृन्दावन । नागयणे कृष्णे । स्वबाहुकल्पेन स्वबाहुतुल्येन तद्वत्सहकारिणा । बलेन बलदेवेन सार्धम् । नन्दस्य लक्ष्मी गोधनादिरूपाम् । रक्षति सति । गवां व्याधिपीडा नासीत् । दैत्यशङ्का च असुरैर्गवादीनामपहारशङ्का च । नासीत् । गवां व्याघ्रभय च भक्षकेभ्यो व्याघ्रादिदुष्टसत्वेभ्यो भयं च । नासीत् ॥ ७८ ।।