पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०१
चतुर्थः सर्गः।

निरीतयस्ते निरपायवाञ्छा निःश्रेयसादप्यधिकप्रमोदाः। प्रपेदिरेऽपूर्वयुगानुभूति गोपास्तदा गोप्तरि वासुदेवे ॥ ७९ ॥ निरीतय इति । तदा । वासुदेवे । गोप्तरि सति । निरीतयः अतिवृष्टिरनावृष्टिमूषकाः शलभाः शुकाः । अत्यारान्नाश्च राजानः षडेता ईतयः म्मृताः' इत्युक्तरूपेतिबाधारहिताः । निरपायवाञ्छाः अभ्रशवाञ्छाः सफलाभिलाषाः । अत एव अनर्थनिवृत्तेरर्थप्राप्तेश्च पुरुषार्थस्य पौष्कल्येन, निश्रेयसादपि अपवर्गादपि । अधिकप्रमोदा अतिशयितहर्षाः । ते गोपाः । अपूर्वयुगानुभूतिं प्रपेदिरे युगचतुष्टयऽ येवमवस्थानस्य दुर्लभत्वात्तद्विलक्षणालौकिकयुगानुभव प्रापुः ॥ ७९ ॥ वत्सानुचर्याचतुरस्य काले वंशस्वनैः श्रोत्रसुधां विधातुः । गतागतप्राणदशामविन्द गोपीजनास्तस्य गतागतेषु ।। ८० ॥ वत्सेति । गोपीजना । वत्सानां अनुचर्याया अनुचरणे चतुरस्य क्षमस्य । काले उचितसमये । वशस्वनैः वेणुनादैः । श्रोत्रसुधां कर्णामृतम् । विधातुः । तृन्प्रत्ययोऽयमिति षष्टीप्रतिषेधाद्वितीया । तस्य कृष्णस्य । गतागतेषु गमनागमनेषु । भावे क्तः । गतागतप्राणदशां यथासख्य ग्मने गतप्राणामागमने आगतप्राणां च दशाम् । अविन्दन् प्रापुः । क्षणमपि तद्विरह न सेहिर इत्यर्थः ॥ ८० ॥