पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९९
चतुर्थः सर्गः।

स्वादुनि वन्यानि फलानि तेस्तैः स्निग्धैरुपानीय निदर्शितानि । रामाय पूर्व प्रतिपाद्य शेषैः स पिपिये सादरभुज्यमानैः ॥ ७५ ॥ स्वादूनीति । सः कृष्णः । स्वादूनि मधुराणि । तैस्तैः। स्निग्धैः गोपकिरातादिभि.। उपानीय आहृत्य । निदर्शितानि इद मधुरमिद मधुरमिति प्रदर्शितानि । वन्यानि वनोद्भवानि । फलानि । पूर्व रामाय प्रतिपाद्य । सादरभुज्यमानैः । शेषैः बलदेवभुक्तशेषै. । पिप्रिये प्रीतोऽभूत् ॥ ताभ्यां तदा नन्दनिदेशिताभ्यां रक्षावतीं रामजनार्दनाभ्याम् । विशेषभोग्यामभजद्विभूति बृन्दावनं व्याप्तधेनुवृन्दम् ।। ७६ ।। ताभ्यामिति । तदा तस्मिन् काले । व्यापृतधेनुवृन्द सचरद्दोग्ध्रीनिकुरुम्बम् । वृन्दावनम् नन्दनिदेशिताभ्यां नन्दनियुक्ताभ्याम् । ताभ्या रामजनार्दनाभ्याम् । रक्षावती वातोष्णमृगशकुन्तकिरातादिभ्यस्त्राणवतीम् । विशेषभोग्यां सौरभ्यमाधुर्याद्याधिक्यादतिशयेनोपभोग्याम् । विभूति पुष्पफलादिसमृद्धिम् । अभजत् प्राप ॥ ७६ ॥ अगाधकासारमहीनशष्पमतीक्ष्णसूर्य तदचण्डवातम् ।