याऽसावनन्तप्रमुरक्रनन्त निर्विश्यते नित्यमनन्तभूमा । वैमानिकानां प्रथमः स देवो वत्सरलेलिह्यत वत्सलात्मा ॥ ७३ ॥ योऽसाविति । अनन्तभूमा अनवधिकमहिमा । योऽसौ । अनन्त प्रमुखैः अनन्तगरुडविष्वक्सेनादिभिः । अनन्तैः असख्यैर्नित्यमुक्त. । नित्य सदा। निर्विश्यते साक्षात्कारेणोपभुज्यते । तद्विष्णोः परम पद सदा पश्यन्ति सूरयः' इति श्रुतिः । भगवतः निरतिशयानन्दरूपत्वेन तै साक्षात्कुर्वद्भिरुपभोग्यता । वैमानिकानां विमानेन चरताम् । 'तेन चरति' इति ठक्प्रत्ययः । प्रथमः प्रवरः आदिमो वा । 'प्रथमा प्रवरा. दिमौ' इति वैजयन्ती । स देवः वासुदेवः । वत्सलात्मा वात्सल्याहृदय सन् । वत्सः। अलेलियत पौनःपुन्येनालिह्यत । क्रियासमभिहारे यडि कर्मणि लड़ । विचित्रा भगवतः क्रीडेनि भावः ॥ ७३ ।। महीयसा मण्डितपाणिपध्र दध्यन्नसारेण मधुप्लुतेन । दृष्ट्वा ननन्दुः क्षुधयान्वितास्तं वत्सानुचयोसु वयस्यगोपाः ।। ७४ ॥ महीयसेति । वत्सानुचर्यासु वत्सानामनुव्रज्यासु । क्षुधया अन्विता क्षुधायुक्ताः । वयस्यगोपाः सवयसो गोपकुमाराः । महीयसा अतिशयेन महता। मधुप्लुतेन क्षौद्रसिक्तेन । दध्यन्नसारेण दधिसिक्तानवरेण । मण्डित पाणिपद्म अलकृतपाणिकमलम् । त कृष्णम् दृष्ट्वा । ननन्दुः नन्दन्ति स्म । वयस्यानां क्षुधासु दध्यन्न दत्वा तान् सतर्पयामासेत्यर्थः ॥ ७४ ॥
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२५२
दिखावट