पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९७
चतुर्थः सर्गः।

अबालिश इति । अबालिशः अवाल: आदिपुरुषत्वात् । बालिशवत् बालेन तुल्य यथा। 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययः 'वालि. शा बालमूर्खयोः' इति वैजयन्ती। आत्मनि स्वस्मिन् । पारतन्य पशुपालनरूपम् । प्रजानां जनानाम् । प्रख्यापयन् प्रकाशयन् । विश्वपतिः अखिलनायकः कृष्णः । पशूनां ससारिणाम , 'आत्मानः पशवः प्रोक्ताः सर्व ससारवार्तनः' इति पुराणवचनात् । बन्धे मोक्षे च ससरण ससारादुत्तरणे च । निज आत्मीयम् । प्रभुत्व न्यदर्शयत् उदाहरणमुखेन दर्शितवान् । गोमहिष्यादीनां पशूनां बन्धमोक्षकरणमेव ससारिरूपिणां पशूनां वन्धमोक्षयोस्तस्य प्रभुत्वे उदाहरणमभूदित्यर्थः ॥ ७१ ॥ आत्मोपमर्देऽप्यनुमोदमाना दात्माधिकं पालयतश्च वत्सान् । गावस्तदानीमनघामविन्द वात्सल्यशिक्षामिव वासुदेवात् ।। ७२ ।। आत्मेति । तदानी कृष्णस्य पशुपालनसमये । गावः । आत्मोपमर्देऽपि स्वस्य पदाक्रमणलहनादिना पीडनेऽपि । अनुमोदमानात् श्लाघमानात् । आत्मनः स्वस्मात् अधिक यथा तथा । वत्सान् पालयतः स्वकीयक्षुत्पिपासादिसमयेऽपि वत्सानेव तृणचर्वणादिना पोषयतश्च । वासुदेवात् कृष्णात् । अनघां वात्सल्यशिक्षा सम्यग्वत्सेषु वात्सल्याभ्यासम् । अविन्दन्निव लेभिर इव । वत्सेषु तत्तन्मातृभ्यः कदाचित्स्तनदशनादौ चरणघन्तादि कुर्वतीभ्यः स्वक्षुधायां वत्सानविचार्य तृणचर्वणादि कुर्वतीभ्यश्च कृष्णस्यैव अधिक वात्सल्य व्यक्तमासीदित्यर्थः ॥ ७२ ॥