पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९४
यादवाभ्युदये

स्नेहेन । मित्रशब्दाद्भावार्थे ध्यञ् : षिट्रगौरादिभ्यश्च' इति डीए । नियतकभावी नियतः स्थिरः एकः एकरूपोऽर्थान्तररहितो भावः अभिप्रायो ययोस्तौ । तौ रामकृष्णौ । वत्सकुलानि वत्सगणान् । गोप्तु रक्षितुम् । न्ययु. ङ्क्त नियुक्ते स्म ।। ६५॥ अनन्यतन्त्रः स्वयमेव देवा पद्मासनादीन्प्रजनय्य रक्षन्। स रक्षकः सीरभृता सहासी नेता गवां नन्दनियोगवर्ती ॥६६॥ अनन्येति । अनन्यतन्त्र. अनन्याधीनः । स्वयमेव स्वेच्छामात्रेण । पद्मासनादीन् ब्रह्मादीन् । देवान् । प्रजनय्य उत्पाद्य । रक्षन् । स नेता नाथः। नन्दनियोगवर्ती नन्दम्य नियोगे वर्तमानः सन् । सारभृता बलदेवेन सह । गवा रक्षक आसीत् । नन्देन बाल इति वत्सपालनमात्रे नियुक्तो गवामपि रक्षक आसादिति तदादरातिशयो दर्शितः । अत एव ‘स नैचिका प्रत्यहमातपान्ते' इत्यादि श्लोकेऽपि प्रसूतानामपि गवां कालनमग्रे वक्ष्यते ॥६६॥ कथं व्रजेच्छर्करिलान्प्रदेशा पद्भयामसौ पल्लवकोमलाभ्याम् । इति स्नुतस्तन्यरसा यशोदा चिन्तार्णवे न प्लवमन्वविन्दत् ॥ ६७ ॥ कथमिति । स्नुतस्तन्यरसा कृष्णे नन्दनियोगेन गोवत्सानां रक्षणाय वन प्रति प्रतिष्ठमाने वात्सल्येन प्रस्तुतस्तनोद्भवरसा। यशोदा की।