धर्म एव स्याहत्त्वा प्राणान्ममार्जुन ।'. इत्यलूपिकावचनेन, तदनन्तरम् 'एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया । कृतवांस्तत्तथा सर्व धर्ममुद्दिश्य कारणम् ।' इत्यर्जुनस्य तद्वचनाङ्गीकरणप्रतिपादनेन ततस्तस्य तत्परिग्रहाब्रह्मचर्यावैगुण्यं तत्प्रायश्चित्ताचरणस्य चानुपदेशेन चावसीयते। अन च गोपगृहिणीना भगवत्परिग्रहालाभे प्राणधारणाशक्तता भागवते स्फुट प्रतिपादिता, इहापि 'हस्तावलम्बो न बभूव तासाम्' इति सूचितैव । अपि चास्य ब्रह्मचर्यस्खलन न तावच्चरमधातुमोक्षणम् , भागवते 'आत्मन्यवरुद्धसौरतः' इति तस्य गोपिकासभोगे वीर्यनिरोधोक्तः । नाप्यालिङ्गनादिना, सर्वात्मनस्तस्य स्वशरीरातिरि क्तशरीराभावात् , स्वशरीरालिङ्गनादेश्च ब्रह्मचर्याविरोधित्वात् । इद च पाद्मोत्तरखण्डे 'धर्मसस्थापनार्थाय ह्यवार्य महीतले। परदाराभिगमन कथ कुर्याजनार्दन.' इति पृष्टवतीमुमा प्रति स्वशरीरपरिष्वगादतिर्नास्ति वरानने' इति महेश्वरवचनेन स्पष्ट प्रतिपादितम् . अत्र च 'अयन्त्रितस्वैरगति.' इत्यनेन सूचितम् । अतो न कश्चिद्विरोध इति भाव. ॥ ४ ॥ स्वसंभवं कृष्णमवेक्षमाणो __ बन्धुप्रसूतं च बलं व्रजेशः। निसर्गमैत्र्या नियतैकभावौ न्ययुत तौ वत्सकुलानि गोप्तुम् ।। ६५ ।। स्वसंभवमिति । व्रजेशः नन्दः । कृष्ण स्वसभव स्वात्मजम् । अवेक्षमाणः । बलं च बन्धुप्रसूत नेहाद्वसुदेवो बन्धुरिति बन्धुसुतम् । अवेक्षमाणः सन् , उभयोर्नियोगार्हतां पश्यन्नित्यर्थः । निसर्गमैत्र्या स्वभावसिद्धेन 13 THE KUPPUSVAMISASTRI RESEARCH NSTITUTF MADRAS-A
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२४७
दिखावट