पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९२
यादवाभ्युदये

संपत्स्यते बालकजीवनं त सत्येन येनैव सतां समक्षम् ॥ ६४ ॥ विमोहन इति । वल्लवगेहिनीनां गोपभार्याणाम् । विमोहने सभोगेऽपि । 'सुरतं मोहन प्रोक्तम्' इति हलायुधः । ब्रह्मचर्य स्त्रीसङ्गराहित्यरूपम् । न बिभिदे न श्लथमासीत् । भिदेः कर्मकर्तरि लिट् । सत्येन अबाधितेनैव । येन ब्रह्मचर्येण। सतां व्यासादीनाम । समक्षम्। तत् प्रसिद्धम् , यदश्वत्थामास्त्रविलुष्टमिति भावः । बालकजीवन उत्तरागर्भच्युतस्य परीक्षितो जीवनम् । सपत्स्यते संपन्न भविष्यति । 'यदि मे ब्रह्मचर्य स्यात्सत्य च मयि तिष्ठति । अव्याहत ममैश्वर्यं तेन जीवतु बालकः ॥ पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च । पस्पर्श पुण्डरीकाक्ष आपादतलमस्तकम् ॥' इति कृष्णेन पदा स्पृष्टः परीक्षिज्जीवन प्रतिलेभे इति भारते कथा । संपत्स्यत इति विमोहनकालमपेक्ष्य लट्प्रयोगः । तथा च ब्रह्मचर्येण दग्धबालकोज्जीवनमेव तदस्खलने प्रमाणमिति भावः । ननु गोपकन्या भुक्ताः ब्रह्मचर्य च न स्खलितमिति कथम् । उच्यते । पुरुषस्य ब्रह्मचर्य रागपरवशानां तत्सभोगाभावे प्राणान्धारयितुमशक्नुवतीनां स्त्रीणां तत्प्राणत्राणाय परिग्रहणे न लुप्यते । तदेतन्महाभारते पार्थतीर्थयात्रायामुलू'या नागकन्यकया मदनातुरया प्रार्थितसभोग 'ब्रह्मचर्यमिदं भद्र मम द्वादशमा सिकम् । धर्मराजेन चादिष्ट नाहस्मि वय वशः' इत्युक्तवन्त पार्थे प्रति 'जानाम्यह पाण्डवेय यथा चरसि मेदिनीम् । तथा हि ते ब्रह्मचर्यमिदमादिष्टवान्प्रभुः । परस्पर वर्तमानान्द्रुपदस्यात्मजां प्रति । यो नोऽनुप्रविशेन्मोहात्स नो द्वादशमासिकम् । वने चरेब्रह्मचर्यमिति यः समयः कृतः । परित्राणं च कर्तव्यमार्तानां पृथुलोचन । कृत्वा मम परित्राण तव धर्मो न लुप्यते । यदि चाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः । स च ते