पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९१
चतुर्थः सर्गः।

कल्लोलाप्लुतानाम् । ‘भवेदुत्कलिकोत्कण्ठाहलासलिलवीचिषु' इति विश्वः। 'सर्वेन्द्रियसुखास्वादा यत्रास्तीति मन. स्त्रियाः । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदु ।' उत्पक्ष्मणां तन्मुखैकदत्तदृष्टितया पक्षे उत्तारयितृदिदृक्षया च उन्नमितपक्ष्मणाम् । तासाम् । हस्तावलम्बः रागोदधि'मुत्तरितुं हस्तस्य कश्चिदवलम्बः । न बभूव । ततश्चान्यस्य हस्तावलम्बस्याभावादाश्रितस्य त्रपामैक्नस्य कृष्णमुखेन्दूदयतरलीभवदुत्कलिकाशतप्रस्ततया विनश्वरत्वात्तासां तदभिसरणरूप रागादधौ निमज्जानमेव प्रसक्तमिति भावः ॥ १२ ॥ अयन्त्रितस्वैरगतिः स तासां संभावितानां करपुष्करेण । पस्विन्नगण्डः प्रणयी चकाशे मध्ये वशानामिव वारणेन्द्रः ॥ ६३ ॥ अयन्त्रितेति । अयन्त्रितम्वैरगतिः कर्माद्यनियमितस्वैराचरणः । प्र. णयी अनुरागवान् । प्रविन्नगण्डः सात्विकभावरूपस्वेदोलसितगण्डः । वारणेन्द्रपक्षे मदोद्रेकादव्याहतस्वैरगमन: क्लिन्नगण्डवेति योज्यम् । स कृष्णः । करपुष्करण कराम्बुजेन नागपक्षे कराग्रेण । 'पुष्कर करिहस्ताग्रे' इत्यमरः । सभावितानां उपलालितानाम् । तासां गोपवधूनाम् । मध्ये । वशानां करिणानां मध्ये । वारणेन्द्र इव । चकाशे अभिसरणार्थमागतास्ताः सर्वा रमयामासेत्यर्थः ॥ ६३ ॥ विमोहने वल्लवगेहिनीनां न ब्रह्मचर्य बिभिदे, तदीयम् ।