पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
यादवाभ्युदये

इति शाङ्गदेवः । वशेन प्रतिबभाषे वेणुवादनविलासेन तत्प्रार्थनाङ्गीकारं सूचयामासेत्यर्थः ॥ ६ ॥ अशिक्षितं तुम्बुरुनारदायै राभीरनाटयं नवमास्थितेन । जगे सलीलं जगदेकधाम्ना रागान्धिना रञ्जयतेब विश्वम् ॥ ६१ ॥ अशिक्षितमिति । तुम्बुरनारदाद्यैः गान्धर्वशास्त्राभियुक्तैः । अशिक्षितं अनभ्यस्तम् । नव नूतनम् । आभीरनाट्य आभारभावाभिनयम् । स एव नाट्यत्वेना यवसितः । आस्थितन अवलम्बितवता । रागान्धिना । — योऽमौ स्वनिविशेषत्तु स्वरवर्णविभूषितः । रञ्जको जनचित्तानां स राग: कथितो बुधैः ॥' इत्युक्तलक्षणानां श्रीरागादीनाम. ब्धिवन्निधानभूतेन । अत एव, विश्व कृत्स्न चेतनाचेतनमपि प्रपञ्चम् । रज्जयतेव स्थितेन । जगदेकधाम्ना जगतामेकेनावासस्थानेन कृष्णेन । सलील यथा तथा । जग गीयते स्म ॥ ६१ ॥ अपत्रपासकतमास्थितानां रागोदधौ कृष्णमुखेन्दुनुन्ने। हस्तावलम्बो न बभूव तासा मुत्पक्ष्मणामुत्कलिकाप्लुतानाम् ॥ ६२॥ अपत्रपेति । कृष्णमुखेन्दुना नुन्ने उत्तरलीकृते । रागोदधौ । अपत्रपा अन्यतो लज्जैव सैकत पुलिनं तत् । आश्रितानां तदाश्रयाणाद्रागान्धौ निमजनं प्राप्तानाम् । उत्कलिकाप्लुतानां उत्कण्ठाभरितानां पक्षे