पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८९
चतुर्थः सर्गः।

सभ्रूविलासानि ददर्श तासां वक्त्राणि वाचालविलोचनानि ।। ५९ ॥ साचीकृतानीति । शौरिः कृष्णः । प्रणयत्रपाभ्यां अनुरागेण लज्जया च । साचीकृतानि तिर्यकृतानि । ‘वदति हि सवृतिरेव कामिताम्' इति न्यायात् वदनसाचीकरण त्रपाया इवानुरागस्याप्यनुभावः । अत एव, व्यावृत्तराजीवनिभानि विवलिततामरसतुल्यानि । सभ्रूविलासानि भ्रूविलाससहितानि । वाचालविलोचनानि वाचालानि बहुभाषीणि तिर्यगवलोकन भेदैः स्फुटमनुराग सूचयन्ति विलोचनानि येषा तानि । तासां व्रजवधू. नाम् । वक्राणि । ददर्श ॥ ५९ ॥ निरङ्कुशस्नेहरसानुविद्धा निष्पन्दमन्दालसनिर्निमेषान् । वंशेन कृष्णः प्रतिसंबभाषे वार्ताहरान्वामदृशां कटाक्षान् ॥ ६० ॥ निरङ्कशेति । कृष्णः । निरङ्कुशस्नेहरसानुविद्धान नियन्त्रणप्रेमरसरूषितान् । निष्पन्दमन्दालसनिर्निमेषान् निष्पन्दाः स्वविषयादन्यत्र विषये अस्पन्दमानाः मन्दाः मदमन्थराः अलसा वीडेन विषयात्प्रत्यावृत्ति मन्तः । 'आलस्य तदभीष्टार्थाद्रीलादेयन्निवर्तनम् ' निर्निमेषाः निमेषरहिताश्चेति विशेषणसमासः, तान् । वामदृशां रुचिरलोचनानामगनानाम् । वार्ताहरान् संभोगप्रार्थनारूपतदीयवार्ताहरान् , स्फुटमेव सभोगेच्छासू. चकत्वात्तथा व्यपदेशः । कटाक्षान् अवलोकविशेषान् । ' यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥'