सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८८
यादवाभ्युदये

मनीषिणां माङ्गलिंकेन यूना - मौलौ धृतां मण्डनबहेमालाम् ॥ ५७ ॥ मुहुरिति । यशोदा । मुग्धाङ्गनामोहनवांशिकेन मुग्धाजनानां मोहजनकेन वंशवादकेन । वशनादैर्मुग्धानां मोहजनकेनेत्यर्थः । वशः शिल्पमस्येति वांशिकः । “शिल्पम्' इति सूत्रेण ठक्प्रत्ययः । मनीषिणां विदुषाम् । माङ्गलिकेन क्षेमकरेण । मङ्गल प्रयोजनमस्येति माङ्गलिकः । 'प्रयोजनम्' इति सूत्राहक्प्रत्ययः । यूना कृष्णेन । मौलौ । धृताम् । मण्डनबर्हमालां अलङ्कारभूतां पिञ्छमालाम् । मुहुः स्पृशन्ती वात्सल्यात्पुनः पुनः स्पृशन्ती सती। मुमुदे मोदते स्म ॥ ५ ॥ कृनास्पदा कृष्णभुजान्तराले पालम्बबावलिरावभासे । विशुद्धहेमद्युतिरब्धिकन्या श्यामायमानेव तदङ्गकान्त्या ।। ५८ ॥ कृतास्पदेति । कृष्णभुजान्तराले कृष्णवक्षसि । कृतास्पदा। प्रालम्बबहावलिः लम्बमानकण्ठाभरणरूपा बावलिः । 'प्रालम्बमृजुलम्बि स्यात्कण्ठात्-' इत्यमरः । विशुद्धहेमद्युतिः स्वतो निष्कलङ्ककनकरुचिः । तदनकान्त्या । श्यामायमाना श्यामा भवन्ती । लोहितादेराकृतिगणत्वाक्यष् । अब्धिकन्या लक्ष्मीरिव । आबभासे । बर्हमाला किंचित्कनकरुचिबहुलश्यामलेल्यवमुत्प्रेक्षा ॥ ५८ ॥ साचीकृतानि प्रणयत्रपाभ्यां व्यावृत्तराजीवनिमानि शौरिः ।