पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९५
चतुर्थः सर्गः।

असौ कुमारः । पल्लवकोमलाभ्याम् । पद्भ्यां पादाभ्याम् । शरिलान् शर्करावत. । 'देशे लुबिलचौ च' इति शर्कराशब्दान्मत्वर्थीय इलच्प्रत्ययः । प्रदेशान् अरण्यप्रदेशान् । कथ व्रजेत् गन्तुं शक्नुयात् । शक्ती लिट् । इति चिन्तवार्णवः तस्मिन् । 'लव तरणोपायमुडुपम् । नान्वविन्दत न लेभे । दुस्तरे चिन्तार्णवे मनाभूदित्यर्थ. ॥ ६७ ॥ विहारवित्रासितदुष्टसत्त्वौ मृगेन्द्रपोताविव धीरचेष्टौ । बभूवतुः शाश्वतिकेन भूम्ना बालौ युवानाविव तो बलाढयौ ॥ ६८ ॥ विहारेति । मृगेन्द्रपोतौ सिहशाबकाविव । धीरचेष्टौ उदारचरिती, मिहशाबवद्वने व्याघ्रादीनलक्षाकृत्य सचरन्तावित्यर्थः । विहारेण मृगयादिरूपेण विवामिता: उद्वेजिताः दुष्टसत्त्वाः व्याघ्रादयः याभ्यां तौ । बाली रामकृष्णौ । शाश्वतिकेन नित्यसिद्धेन । शश्चन्छब्दात् ‘कालाढक' इति शेषिकष्टक्प्रत्ययः । बहिषष्टिलोपविधानादनित्यः ‘अव्ययानां भमात्रे टिलोपः' इति न टिलोपः । भूम्ना महिम्ना परब्रह्मभावरूपेण । युवानाविव । बलाढ्यौ बलसमृद्धौ । बभूवतुः ॥ ३८ ॥ सिन्दरितौ वत्सपरागजालैः सितासितौ बालगजाविव द्वौ । उदारलीलावुपलक्ष्य गोप्यः सर्वास्तदानन्यवशा बभूवुः ॥ ६९ ॥ सिन्दुरिताविति । तदा । वत्सपरागजाली वत्सानां खुरोत्थापितैः