सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८५
चतुर्थः सर्गः।

वंशस्वन इति । कृष्णे । आयाति वत्सपालैः सह क्रीडित्वा वत्सानां पश्चात्समायाति सति । वंशस्वनः सनिकर्षाच्छ्रयमाणः कृष्णस्य वेणुध्वनिः । वत्सविहारपांसुः गृह प्रत्यागच्छतां वत्सानां विहारेण उत्थितो रेणुः । तस्य । सध्यागमः संध्यायां रात्रिकालसंनिकृष्टायां आगमनम् । वन्यवेषः पल्लवमयूरपिञ्छादिरूपश्चेति । व्रजसुन्दरीणां व्रजाजनानाम् । चतुस्कन्धं चतुव्यूहम् । अनङ्गसैन्यम्। अभूत्। चत्वार्यपि तासामुद्दीपकान्यभवन्नित्यर्थः। समाश्रितां विभ्रमसैन्यभेदैः कान्त्या स्वया कल्पितचारुवपाम् । बजस्त्रियः कृष्णमयीं व्यजान क्रीडार्गलां क्षेमपुरीमपूर्वाम् ॥ ५३ ॥ समाश्रितामिति । व्रजस्त्रियः गोकुलाङ्गनाः । विभ्रमसैन्यभेदैः भ्रूनयनादिविभ्रमा एव सैन्यविशेषास्तैः । समाश्रिताम् । स्वया। आत्मीयया। कान्त्या । कल्पितचारुवप्रां निर्मितरुचिरप्राकाराम् । प्राकारमूलबन्धवाचिना वप्रशब्देन प्राकारमात्र विवक्ष्यते । क्रीडा गोपीवस्त्रापहारादिविहार एव अर्गला यस्यास्ताम् । कृष्णमयी कृष्णरूपाम् । अपूर्वाम् । क्षेमपुरी क्षेमस्य कुशलस्य आनन्दस्य राजकल्पख नगरीम् । व्यजानन् कृष्णस्य निरतिशयसभोगानन्दहेतुतया तमानन्दसाम्राज्यपुरीत्यध्यगच्छन्नित्यर्थः । अत्र कृष्णमयी क्षेमपुरीमित्यपह्नवालङ्कारः। राजनगर्या. सैन्यविशेषैरिव विभ्रमैस्तस्याः परिपोष इति तेषां सैन्यभेदत्वेन रूपणम् । परितः स्थितत्वात्कान्तेर्वप्रत्वेन रूपणम् । अर्गलागुप्त्येव क्रीडया आनन्दनगर्याः समृद्धिरिति तस्यास्तथात्वेन रूपणम् । अनेन च व्यजाननिति वचनेन तासां तत्संभोगेच्छारूपा रतिस्तत्र विवक्षिता जातेति व्यज्यते । ततश्च कार्ये प्रस्तुते कारणाभिधानरूपा अप्रस्तुतप्रशंसा चालङ्कारः ॥ ५३॥