पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८४
यादवाभ्युदये

नधाम्ना निक्षेपस्थानभूतेन । नवयौवनेन । बभासे । 'वयसा नवेन' इति पाठेऽपि वयःशब्देन यौवनं विवक्षितम् । 'वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके' इति विश्वः। पञ्चवर्षपर्यन्तशैशवात्ययमात्रमेवात्र यौवनोचिताकारविहारयोगाद्यौवन विवक्षितम् , न तु मुख्ययौवनम् ; अष्टमवयसि कंसवधादिलीलायाः पुराणप्रसिद्धः । इहाप्यनन्तरमेव ‘बालो युवानाविव तौ बलाढ्यौ' इति वक्ष्यमाणत्वात् । गोवर्धनोद्धरणे 'अमुक्तबाल्यस्य समग्रशक्तेः क्षणार्धवत्सप्त दिनान्यतीयुः' इति वक्ष्यमाणत्वाच ॥५०॥ विहारपर्वक्रमचारु शौरेः कल्यं वयः कामगृहीतियोग्यम् । • मनोभिरास्वाद्यतमं प्रपेदे माधुर्यमिक्षोरिव मध्यभागः ॥५१॥ विहारेति । विहाराणां क्रीडानामुत्तरोत्तरमुत्कृष्यमाणाना पर्वक्रमेण तारतम्यपरिपाट्या चारु क्रमसवर्धमानक्रीडाभेदमनोहरम् । कामस्य मन्मथस्य गृहीतौ परिग्रहे योग्यं मन्मथाधिष्ठेयम् । शौरेः । कल्य चतुरम् । 'कल्यौ नीरोगदक्षयोः' इति विश्वः । वयः यौवन कर्तृ । इक्षोः इक्षुदण्डस्य । मध्यभाग इव । मनोभिः । आस्वाद्यतम अतिशयेनास्वाद्यम् । माधुर्यं प्रपेदे । माधुर्यमपीक्षोर्मध्यभाग एवातिशयितमिति भावः ॥५१॥ वंशस्वनो वत्सविहारपांसुः । संध्यागमस्तस्य च वन्यवेषः । आयाति कृष्णे व्रजसुन्दरीणामासीचतुःस्कन्धमनङ्गसैन्यम् ॥ ५२ ॥