पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८३
चतुर्थः सर्गः।

स चात्मचण्डातकमात्रभाजां क्षौमार्थिनीनां स्वयमर्थ्यमानैः । अनन्यहस्तार्पणसंपत्तै स्तासां जहासाञ्जलिभिस्तदीयैः ॥ ४९ ॥ स चेति । सः हरिः । आत्मचण्डातकमात्रभाजां निजा/रुकमात्रसहितानाम् । क्षौमार्थिनीनां निजनिजदुकूलानि अपेक्षमाणानाम् । तासां गोपस्त्रीणाम् । खय आत्मना कृष्णेनेत्यर्थः । अर्थ्यमानैः अभिलष्यमाणैः, अन्यहस्तविरहितमेवान्जलिबन्धः क्रियतामिति कृष्णेनादिष्टैरित्यर्थः । अन. न्यहस्तार्पणसप्रवृत्तः अन्यदीयहम्तसपर्करहितं यथा तथा निष्पन्नैः । तदीयैः तत्तन्मात्रसबन्धिभिः। अलिभिः । जहास जितमस्वाभिरिति सतोष हसति स्मेत्यर्थः । तासां तदीयरित्युक्तिः तत्तन्मात्रसबन्धित्वद्योतना. येति बोध्यम् ॥ ४९ ॥ प्रसुप्तमुद्बोधयता परत्वं वीरश्रियो विभ्रममण्डनेन । नीलादिनिवेशनिधानधाम्ना नाथो बभासे नवयौवनेन ॥ ५० ॥ प्रसुप्तमिति । नाथ. कृष्ण. । प्रसुप्त शैशवेऽत्यद्भुतचरित्राणां किचिप्रदर्शनादनभिव्यक्तम् । परत्वं परब्रह्मभावम् । उद्बोधयता अभिव्यायता, गोवर्धनोद्धरणादीनामद्भुतचरित्राणां भावित्वात् । वीरश्रियः शौर्यलक्ष्म्याः । विभ्रममण्डनेन विलासार्थेनालकारण, चाणूरमर्दनादिना तदुन्मेषस्य भावितत्वात् । नीलादीनां वल्लवीनां निवेशस्य उपभोगस्य निधा