पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८२
यादवाभ्युदये

प्रातःलाने समुद्युकानाम् । आभीरकिशोरिकाणां गोपकन्यानाम् । किशोरशब्दात् 'वयसि प्रथमे' इति डीपि ‘अल्पे' इति कप्रत्यये च सति 'केऽणः' इति हस्खः। निक्षिप्तं विस्रस्य न्यस्तम् । दुकूलजालं क्षौमसमूहम् । कूलात् यमुनातीरात् । उपादाय । कुन्द माध्यतरुम् । अधिरूढः सन् । मुमुदे । विवसनानां तासां स्वैरदर्शन भविष्यतीति प्रमुदितोऽभूदित्यर्थः ॥ ४७ ॥ स चैकहस्तपणतिं विधन्व न्क्षौमार्थिनीनां हरिरङ्गनानां । अन्योन्यहस्तार्पणसंप्रवृत्त मासां जहासाचा स चेति। सः हरिः । क्षौमार्थिनीना जलादुत्तीर्य कुन्दतलमागत्य क्षामाण्यर्थयमानानाम् । अङ्गनानाम् । एकहस्तप्रणति कराभ्यां गोप्याज तिरोधाय कुन्दमूलमागतासु तासु भवतीभिर्नमस्कारे कृते दीयत इति स्वेनोक्ते एकेन हस्तेन गोप्याङ्ग तिरोधाय तदन्येनैकहस्तेन क्रियमाणा प्रणतिम् । विधुन्वन् अनलिबन्धेन प्रणति विना न दीयत इति ता प्रणतिमनङ्गीकुर्वन्सन् । अन्योन्यहस्तार्पणसंप्रवृत्त गोप्याङ्गप्रकाशभिया स्वहस्तद्वयेन अलिबन्धमकुर्वतीनां तासां द्वयोर्द्वयोः परस्परस्य एककहस्तार्पणन सुनिष्पन्नम् । अत एव, अपूर्व इतः पूर्व कुत्राप्यदृष्टम् । आसां गोपस्त्रीणाम् । अञ्जलिं संयुतकरद्वयक्रियमाणप्रणतिमपीत्यर्थः । जहास परिहसति स्म, किमयमञ्जलिपदार्थ इति परिहसन् तासां तादृशमञ्जलिबन्धमपि नाङ्गीचकारेत्यर्थः । चकारः पूर्वश्लोकक्रियासमुच्चयार्थः ॥ ४८ ॥