पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८१
चतुर्थः सर्गः।


सपक्षेति । गोपाः । सपक्षकैलासनिभस्य पक्षसहितकैलासतुल्यस्य । बकस्य बकरूपधारिण: कृष्णेन हतस्यासुरस्य । पक्षान् पतत्राणि । कीदृशान् , वने तस्मिन् । तदन्यान् बकव्यतिरिक्तानपि । घोरवृत्तीन् क्रूरचरितान् धेनुकादीन् । क्षेप्तु निरसितुम् । प्रवृत्ताः । केतुमालाः उत्पातराजीरिव स्थितान् । अभितः सर्वतः वृक्षाग्रादिषु । बबन्धुः लीलार्थ इतरत्रासार्थ च बध्नन्ति स्म ॥ ४५ ॥ पुरस्कृतं मंगलगीतवाद्यैः पुंसः प्रसत्त्यै जगतां प्रसूतेः। कयापि तत्र स्पृहयान्वतिष्ठ कन्यावतं किंचन गोपकन्याः ॥४६॥ पुरस्कृतमिति । तत्र नन्दकुले । गोपकन्याः । कयापि स्पृहया किचित्फलोद्देशेन । जगतां प्रसूतेः लोकानामुपादानभूतस्य । प्रसूयन्तेऽस्मिनित्यधिकरणे क्तिन्प्रत्ययः । पुसः परमपुरुषस्य । प्रसत्त्यै प्रसादाय । मङ्गलगीतवाद्यैः । पुरस्कृत पूजितम् । 'पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते' इत्यमरः । किचन । कन्यावत कन्याभिरनुष्ठेय व्रतम् । अन्वतिष्टन् अनुतिष्ठन्ति स्म ॥ ४६ ॥ निशात्ययस्नानसमुद्यतानां निक्षिप्तमाभीरकिशोरिकाणाम् । कूलादुपादाय दुकूलजालं . कुन्दाधिरूढो मुमुदे मुकुन्दः ॥ ४७॥ निशात्ययेति । मुकुन्दः । निशात्ययस्नानसमुद्यतानां व्रतागभूत