पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८६
यादवाभ्युदये

अनुश्रवाणामवतंसभूतं बर्हावतंसेन विभूषयन्ती। अदिव्यया चर्मदृशैव गोपी समाधिभाजामभजत्समाधिम् ।। ५४ ।। अनुश्रवाणामिति । गोपी केनचिद्वयाजेन तत्परिचयमिच्छन्ती काचन गोपतरुणी । अनुश्रवाणां वेदानाम् । अवतसभूत उत्तमागाभरणमिव स्थितम् । भूतशब्दोऽपि निभादिशब्दवत्सादृश्यवाची । “भूत न्याय्ये समे प्राप्ते यथार्यातीतयोरपि” इति रत्नमाला । वेदान्तप्रतिपाद्यमिति यावत् । 'पुंस्युत्तंसावतसौ द्वौ कर्णपूरेऽपि शेखरे' इत्यमरः । कृष्णम् । बर्हावतसेन मयूरपिञ्छरूपेणावतसेन। विभूषयन्ती सती । अदिव्यया चर्मदृशैव प्राकृतचर्मलोचनेनैव । समाधिभाजां योगिनाम् । समाधिम् । अभजत् । योगिनो हि योगाभ्याससस्कृतया दिव्यया प्रत्यग्डघ्या ऐकाय्येण समाधि भजन्ति, इयं त्वयत्नाचर्मदृष्ट्यैव समाधिमभजत् । मयूरपिञ्छप्रयुक्तशोभाविशेषमनन्यमनाः सती निर्निमेषं दृष्ट्वैवावस्थितवतीत्यर्थः ॥ ५४ ॥ कलापिनां कल्पितमाल्यभावैः पत्रेस्तदा पत्रलदेहकान्तिम् । अवाप्य संचारितमालमा .छायात्मतां प्रापुरिवास्य गावः ॥ ५५ ॥ प्रसङ्गादेवस्य मयूरपिञ्छाभरणानि श्लोकचतुष्टयेन 'वर्णयतिकलापिनामिति । गावः नन्दस्य सुरभयः । कल्पितो माल्यभा