पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७९
चतुर्थः सर्गः।

गोपानां वशस्य चन्द्रः चन्द्रवदाह्लादकरः कृष्णः । पृथिव्याः भूमेः । यौवनमिव स्थितं तस्याः शोभावहत्वात् । तत् वन वृन्दावनम् । अनुग्रहाब्धेः प्रसादसागरस्य । वीचिभेदैः तरङ्गविशेषैरिव स्थितैः । शुभैः मनोज्ञैः । अपाङ्गैः कटाक्षैः । ‘कटाक्षः काशतापाङ्गः' इति धनजयः । आप्याययामास पोषयामास ॥ ४१ ॥ आसीनिषेव्या पृथिवी पशूनां .. पुण्ड्रेक्षुरम्याणि तृणान्यभूवन् । तस्मिन्नरण्ये तरुभिः प्रपेदे कल्पद्रुमाणामनुकल्पभावः ॥ ४२ ॥ आसीदिति । तस्मिन् अरण्ये बृन्दावने । पृथिवी । पशूना गोमहिष्यादीनाम् । निपेव्या कण्टकशर्करायभावेन सवेशादियोग्या । बभूव । पुण्ड्रेक्षुरम्याणि पुण्ड्र इतीक्षुः पुण्ड्रेक्षु: अतिमधुरेचविशेषः । 'रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः' इत्यमरः । तथा स्वादूनि । तृणानि । अभूवन् । तरुभिः । कल्पद्रुमाणाम् । अनुकल्पभावः अमुख्यकल्पता स्वादुसुगन्धिफलकुसुमादिभरिततया तत्सादृश्यमिति यावत् । प्रपेदे प्राप्तः । कर्मणि लिट् ॥ ४२ ॥ अदृष्टपूर्वैरधिकां विशेषे रालक्ष्य वन्याममरेन्द्रमान्याम् । नन्दोपनन्दप्रमुखै नन्दे नाकाधिरूढरिव नाथभून्ना ।। ४३ ॥ अदृष्टेति । नन्दोपनन्दप्रमुखैः उपनन्दो नाम तस्मिन्बजे कश्चिद्गो