सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७८
यादवाभ्युदये

विकारं तर्कयन्तः । गोपाः । समेत्य संभूय। माधवेन सह। सत्वर शीघ्रम् । वृन्दावनं वनविशेषम् । अभ्यगच्छन् तत्रैव वास्तव्यकुटुम्बितया स्थातु गता इत्यर्थः । बुन्देति गोतर्णकस्य नाम तत्प्रधानं वन वृन्दावनमिति केचिदाहुः । दण्डकावनमितिवत्सामान्यविशेषसमासेन बृन्दावनमित्यपरे । वय तु 'श्रीमद्धन्दावन नाम वन त्रिदशपूजितम्' । 'बृन्दावनवनोत्पन्नकदम्बतरुकोटरः' इति हरिवंशपुराणादिवचनेषु वनशब्दान्तरसमभिव्याहारदर्शनात् वृन्दावनमित्येतावदपि विशेषनामेत्यालोचयामः ॥ ३९ ॥ येनौषधीनामधिपं पुरस्ता दाह्रादहेतुं जगतामकार्षीत् । तेनैव दध्यौ मनसा वनं त कृष्णो गवां क्षेमसमृद्धिमिच्छन् ॥ ४० ॥ येनेति । कृष्णः । पुरस्तात् सर्गादौ । येन मनसा । जगताम् । आह्लादहेतुम् । ओषधीनां अधिप चन्द्रम् । अकार्षीत् असृजत् । तेनैव मनसा अखिलजगत्क्षेगङ्करस्वान्तेन तत् । वनम् । गवां क्षमसमृद्धि इच्छन् । दथ्यौ ध्यायति स्म । यथा गवामभिवृद्धिर्भवति तथा तस्मिन्वने तृणजलच्छायादिभूमास्त्विति द-यावित्यर्थः ॥ ४० ॥ अनुग्रहाब्धेरिव वीचिभेदै राप्याययामास शुभैरपाङ्गैः। वनं पृथिव्या इव यौवनं त द्रोप्ता सतां गोधनवंशचन्द्रः ॥४१॥ अनुग्रहेति । सतां सात्विकानाम् । गोप्ता संरक्षकः । गोधनानां