पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७७
चतुर्थः सर्गः।

तसदृशौ । यो । अर्जुनौ ककुभवृक्षौ। 'ककुभः कुटजेऽर्जुने' इति शब्दार्णवः । बभञ्ज अर्जुनद्वयमध्ये कृष्णे गते तिर्यग्भूतमुभाभ्यामपि निरुद्धगति कृष्णेनाकृष्यमाण सद्भनौ चकार । तौ । तदा । ब्रह्मसुतस्य मुनेः नारदस्य । शापात् । मुक्तौ सन्तो । यक्षवरौ यक्षश्रेष्ठौ । बभूवतुः । पुरा किल नलकूबरो मणिग्रीवश्चेति द्वौ धनदपुत्रौ मदिरापानमत्तौ विवसनौ स्त्रीभिः क्रीडन्तो नारद दृष्ट्वापि तथैव स्थिती यावत्कृष्णसमागम स्थावरौ भवतमिति तेन शप्तौ नन्दकुले यमलार्जुनरूपेण प्ररूढाविति पुराणकथा ॥ शापावधि ब्रह्मसुतेन दत्तं संप्राप्य तो शौरिसमागमेन । देहेन दिव्येन विदीप्यमानौ स्तुत्वा हरिं धाम समीयतुः स्वम् ।। ३८ ॥ शापेति । तौ यक्षवरौ । ब्रह्मसुतेन नारदेन । दत्तम् । शापावधि शापान्तम् । शौरिसमागमेन कृष्णस्य सपर्केण । संप्राप्य । दिव्येन देवसबन्धिना । देहेन । विदीप्यमानौ सन्तौ । हरिम् । स्तुत्वा । स्वम् । धाम स्थान अलकाम् । समीयतुः जग्मतुः ॥ ३८ ॥ अदृष्टपूर्व भुवि पूतनादे रुदन्तमुत्पातमुदीक्षमाणाः। समेत्य गोपाः सह माधवेन बृन्दावनं सत्वरमभ्यगच्छन् ।॥ ३९ ॥ अदृष्टेति । भुवि भूलोके । अदृष्टपूव पूर्वमदृष्टम् । ‘सुप्सुपा' इति समासः। पूतनादेः । उदन्तम् । उत्पातं उदीक्षमाणाः तस्य स्थानस्य अरिष्टसूचक 12