पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७६
यादवाभ्युदये

भावाद्दीना सती। 'मुनिदीनी तपस्विनौ' इति विश्व । सब्रीड सलज्जम् । आरण्यकथासु अरण्यसंबन्धिर्नाषु औपनिषदीषु कथासु । तस्थौ। यथा लोक स्वोक्तस्यान्यथाभावे सनि ब्रीडया विवर्णवदनाः क्वचिनिलीना भवन्ति तद्वदिति भावः । तत्र तत्क्रतुनीतेरारण्यकेष्ववस्थानस्य व्रीडाहे. तुकत्वमुत्प्रेक्ष्यत इति हेतूत्प्रेक्षालंकारः तच्च हेतुत्व विशेषणगत्या प्रतीत इति काव्यलिङ्ग च ॥ ३५ ॥ उलूखलप्रग्रथितेन दाना निबद्धमासाविललोलनेत्रम् । सहासमैक्षन्त जनाः समन्ता दालानितं नागमिवानभिज्ञाः॥ ३६॥ उलूखल इति। उलूखले । प्रग्रथितेत सान्द्रबद्धेन । दाना । निबद्धम् । आस्राविललोलनेत्र स्वच्छन्दसचारविघ्नेन भयन च अश्रुकलुषचञ्चललोचनम् । आलानित सजातालान आलाने बद्धम् । नाग हस्तिन - मिव स्थितम् । यथा वन्या हस्ती इदप्रथममालाने बन्धनं न सहते तथा बन्धनासहनतया व्याकुलमित्यर्थः । तं कृष्णम् । अनभिज्ञाः अभिनय - मात्रमेतद्देवस्येत्यवबोधरहिताः । सहास यथा तथा । ऐक्षन्त ॥ ३६ ॥ अनादराकृष्टमुलूखलं त द्यावर्जुनौ शैलनिभौ बभञ्ज । बभूवतुब्रह्ममुतस्य शापा न्मुक्तौ सुनेर्यक्षवरौ तदा तौ ॥ ३७॥ अनादरेति । अनादराकृष्टम् । तत् । उलूखलम् । शैलनिभौ पर्व