पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७५
चतुर्थः सर्गः।

आनीतमग्रे निजवन्धनार्थ दामाखिलं संहितमप्यपूर्णम् । निरीक्ष्य निर्विण्णधियो जनन्याः संकोचशक्त्या स बभूव बन्ध्यः ॥ ३४ ॥ आनीतमिति । स कृष्णः । निजबन्धनार्थ निजबन्धनायेद यथा तथा । 'अर्थेन नित्यसमासो विशेष्यालङ्गता च' इति नपुसकत्व । अग्रे पुरतः । आनीत दाम अखिल सहितमपि, गृह यावदस्ति तत्सर्व परस्परग्रथितमपि । अपूर्ण स्वमायया बन्धनापर्याप्तम् । निरीक्ष्य । निर्विण्णधियः खिन्नमतेः । जनन्याः यशोदायाः । सकोचशत्तया तन्निर्वेददर्शनोदितकरुणागीकृतया । बन्ध्य बन्धनार्हः । बभूव ॥ ३४ ॥ . बद्धं तथा भावयतां मुकुन्द मयत्नविच्छेदिनि कर्मबन्धे । तपस्विनी तत्क्रतुनीतिराद्या सबीडमारण्यकथासु तस्थौ ॥ ३५ ॥ बद्धमिति । उलूखले, बद्धम् । मुकुन्दम् । तथा बद्धत्वेन प्रकारेण । भावयतां ध्यायताम् कर्मबन्धे ससारबीजकर्मरूपे बन्धे। अयत्नेन विच्छेदोऽस्यास्तीत्ययत्नविच्छेदिनि सति । आद्या प्राचीना 'यथाक्रतुरस्मॅिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति' इति श्रुतिसिद्धा। तत्क्रतुनीतिः इह यत्क्रतुर्यत्संकल्पः पुरुषो भवति तस्य प्रेत्य तथा प्राप्त्यौचित्यरूपो वेदान्तिभिस्तक्रतुन्याय इति व्यवह्रियमाणा नीतिः। 'ऋतू अध्वरसंकल्पौ' इति वैजयन्ती। तपखिनी भगवन्तं बद्धं भावयतां देहपातानन्तर बन्धविच्छेदेन स्वार्थान्यथा