पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७४
यादवाभ्युदये

मादाय समाधेयम् । 'एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ' स्मृतौ' इति कृदन्तात्प्रतिषेधस्तु प्रायिक इष्यत इति भाष्यवचनात् । 'विक्रयण्याः' इति ल्युडन्तपाठो वा द्रष्टव्यः ॥ ३१ ॥ अपूरयत्स्वादुफलार्पणेन क्रीडाशिशोर्हस्तपुटं किराती। रत्नस्तदा कौस्तुभनिर्विशेषै गपूरितं तत्फलभाण्डमासीत् ।। ३२ ॥ अपूरयदिति । किराती फलविक्रयिणी । क्रीडया शिशोः कृष्णस्य । हस्तपुट अञ्जलिम् । स्वादुफलार्पणन । अपूग्यत् । तदा तस्मिन्समये । तत्फलभाण्ड तस्याः फलभाजनम् । 'सर्वमावपन भाण्ड पात्रामत्रे च' भाजनम्' इत्यमरः । कौस्तुभनिर्विशेषैः कौस्तुभाद्विशेषराहतैः तत्सदृशैः । रत्नैः किरातवनिताया आदरेण प्रसन्नस्य भगवतः सकल्पनापादितैः । आपूरितम् । आसीत् ॥ ३२ ॥ मुहुः प्रवृत्तं नवनीतचौर्ये वत्सान्विमुञ्चन्तमदोहकाले । उलूखले कुलचिदात्तपुण्ये बन्धुं सतां बन्धुमियेष माता ॥ ३३ ॥ मुहुरिति । नवनीतचौर्ये । मुहुः पुनः पुनः । प्रवृत्तम् । अदोहकाले दोहकालव्यतिरिक्ते मध्याह्नादिसमये। वत्सान् । विमुञ्चन्तं मातृभिः संयोजनाय विसृजन्तम् । सतां बन्धु बन्धुवद्धितैषिणम् । माता यशोदा। आत्तपुण्ये कृष्णाङ्गसंपर्कप्रापकपुण्यवति। कुत्रचित् उलूखले । बन्धुम् । इयेष ॥ ३३ ॥