पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७३
चतुर्थः सर्गः।

प्रभव इत्यपि प्रतीयते । तथापि अरण्यजातानि फलानि वीथ्यां विक्रीयमाणानि बदरादीनि । अभी सन् । विश्वस्य पतिः कृष्णः । विससिधान्याञ्जलिना शैशवादृढबन्धासामर्थ्याभिनयेनाजुलीविवरेषु विस्रसमान धान्य फलमूल्यव्रीहियवादि यस्मातथाभूतः अञ्जलि: कुब्जकरद्वययोगो यस्य तेन । करेण उपलक्षितः सन् । व्याधात्मजां फलविक्रयिणी व्याधपुत्रीम् । सिषेवे उपससपेत्यर्थः । अत्रापि विश्वानि विश्वाधिकशक्तिरिति श्लोक इव विभावनाविशेषोक्त्योः संदेहसंकरः । अत्रारण्यकानामिति श्लेषाङ्गत्वमिति विशेषः । विस्रसिधान्याञालिनत्यादौ स्वभावोक्तिरलङ्कारश्च ॥ ३० ॥ सुजातरेखात्मकशङ्खचक्र ताम्रोदरं तस्य करारविन्दम् । विलोकयन्त्याः फलविक्रयिण्या विक्रेतुमात्मानमभूद्विमर्शः ॥ ३१ ॥ सुजातेति । सुजातरेखात्मके अभिजातरेखारूप शङ्खचक्रे यस्मिन् तत् । ताम्रोदरं अरुणतलम् । तस्य । करारविन्द फलग्रहणाय प्रसारितम् । विलोकयन्त्याः । फलविक्रयिण्याः फलानि विक्रीणानायाः किरा तपुत्र्याः । आत्मानं विक्रेतु रागेण स्वात्मानमेव कृष्णसात्कर्तुम् । विमर्शः विचारः अभूत् । अत्र विलोकयन्त्या विमर्शोऽभूदिति कार्यकारणसमकालत्वलक्षणोऽतिशयोक्त्यलङ्कारः । तेन कृष्णस्याप्राकृतसौन्दर्य व्यज्यते । फलविक्रयिण्या इत्यत्र यद्यपि 'कर्मणीनिर्विक्रियः' इतीनिप्रत्ययो न भवति सोमविक्रयी द्विजः' इत्यादौ कुत्सानिमित्त एव कर्मणि तदनुशासनात् , तथापि फलविक्रयोऽस्या अस्तीति मत्वर्थीयमिनिप्रत्यय