पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६८
यादवाभ्युदये

क्रमेण भूयोऽपि विहारकाझी नन्दस्य दारैरभिनन्द्यमानः। नित्यानुभूतं निगमान्तभृग निजं पदाब्जं निदधे पृथिव्याम् ॥ २१ ॥ क्रमेणेति । भूयोऽपि स्तन्यपानानन्तर पुनरपि । विहारकाक्षी कीडामाकाक्षमाणः । नन्दस्य दारैः यशोदया । ' दाराः पुसि च भूम्न्येन' इति पुलिङ्गता बहुवचनान्तत्व च । अभिनन्द्यमानः उत्साहजननय श्लाघ्यमान देवः । निगमान्ता एव भृङ्गाः तैः । नित्यानुभूत नित्यम्सभुक्तं तत्तात्पर्यमिति यावत् । निज आत्मीयम् । पदाव्जम् । क्रमेण । पृथिव्यां निदधे, यशोदया जनितोत्साहः स्वयमेवोत्थाय स्थित इत्यर्थ ॥ स संचरन्साधुजनप्रतीपै मा भुज्यता सेयमितीव मत्वा । चक्रादिभिः पादसरोजचिह्न रामुद्रयामास महीमनन्यैः ॥ २२॥ स इति । सचरन् गृहाङ्गणभूमौ पर्यटन् । स देवः । सा भगत्सबन्धित्वेन प्रसिद्धा । इय भूमिः । साधुजनप्रतीपैः सात्विकजनविपरीः । मा भुज्यताम् । इति मत्वेव । अनन्यै. अन्यः आश्रयो नास्ति येष तैः सात्त्विकेतरसाधारण्यरहितैः । पादसरोजचिह्नः । चक्रादिभिः । मम् । आमुद्रयामास समन्तान्मुद्रावती चकार । यथा गृहारामादिषु ब्राह्मादि. भोग्यत्वसूचनाय तत्तदसाधारणदण्डकमण्डल्वादिमुद्रां कुर्वन्ति तदिति भावः । हेतृत्प्रेक्षा ॥ २२ ॥