पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६९
चतुर्थः सर्गः।

आलम्ब्य मातुः करपल्लवाग्रं शनैः शनैः संचरतो मुरारेः। बभार चित्रामिव पत्ररेखां धन्या पदन्यासमयीं धरित्री ।। २३ ॥ आलम्ब्येति । धन्या सुकृतिनी । धरित्री । मातुः यशोदायाः । करपल्लवयो । अग्रम् । आलम्ब्य । शनैः शनैः । सचरतः । मुरारेः कृष्णस्य । पदन्यासमयी चरणविक्षेपरूपाम् । चित्रामिव नानाविधमकराद्याकृतियुक्ताम् । पत्ररेखाम् । वभार । इवशब्दो वाक्यालकारे ‘आव. जिंता किंचिदिव स्तन्याभ्याम्' इत्यादाविव ॥ २३ ॥ अकर्मनिघ्नो भुवनान्यजत्रं संकल्पलेशन नियम्य दीव्यन् । प्रचारितः प्रस्नुतया जनन्या पदे पदे विश्रममाचकाङ्क्ष ।। २४ ॥ अकर्मति । अकर्मनिघ्न' अकर्माधीन. । सकल्पलेशेन सकल्पमात्रेण । भुवनानि । नियम्य व्यवस्थाप्य । अजस्र सदा । दीव्यन् क्रीडन् । सः । प्रस्तुतया वात्सल्येन स्तनप्रस्नवयुक्तया । जनन्या । प्रचारितः सचारितः सन् । पदे पढे प्रतिपदम् । विश्रम विश्रान्तिम् । आचकाक्ष आकाङ्क्षति स्म । अत्रापि 'विश्वाधिकशक्तिरेकः' इति श्लोक इव विभावनाविशेषोक्त्योः सन्देहसङ्करः ॥ २४ ॥ मुरप्रसूनैः सुरभीकृताना मारोहणान्यङ्गणवेदिकानाम् ।