पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६७
चतुर्थः सर्गः।
पदैत्रिभिः क्रान्तजगत्रयं तं

भव्याशया भावितबालभावम् । करेण संगृह्य कराम्बुजाग्रं संचारयामास शनैर्यशोदा ॥ १९ ॥ पदैरिति । भव्याशया शुभचित्ता कुमारस्य क्षमार्थिनी । यशोदा । त्रिभः । पदै. चरणविन्यासः । क्रान्तजगत्रय आक्रान्तलोकत्रयम् । तथा भवितबालभाव अभिनीतबाल्यम् । त देवम् । करेण स्वहस्तेन । कराम्बु. जन्म तम्य कर. अम्बुजमिव तस्याग्रमङ्गुलीप्रदेशम् । सगृह्य गृहीत्वा । शः सचारयामास, क्रमेणाभ्यासाय मन्द सचारयति स्म ॥ १९॥ स्खलद्गतिं द्वित्रपदप्रचारा ज्जानुक्रमे जातरुचिं कुमारम् । भुग्ने समावेश्य वलमभागे स्तन्यं मुदा पाययते स्म धन्या ॥ २० ॥ खलदिति । धन्या सुकृतिनी यशोदा । द्वित्रपदप्रचारात् द्वे वा णि वा मान येषा तानि द्वित्राणि । 'सख्ययाव्ययासन्ना-' इत्यादिन समास. । 'बहुव्रीही सख्येये ड जबहुगणात्' इति डन्समासान्त. । द्वित्रणे पदानि प्रचार । अत्यन्तसयोगे द्वितीया । “द्वितीया” इति योगाभागात्समास । तस्माद्धतोः । स्खलद्गतिम् । अत एव, जानुक्रमे जानुक्रमणे । जातरुचि कुमारम् । भुग्ने अवनते । वलमभागे । समावेश्य मुदा । स्तन्य पाययते स्म, पादप्रचारश्रान्त्यपनयायेति भावः । ‘लट्मे' इति भूते लट् । स्वभावोक्तिरलङ्कारः ॥ २० ॥