पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६
यादवाभ्युदये

तरङ्गितः सञ्जाततरङ्गः उद्भूतः अनुश्रवस्य वेदस्य गन्धो यस्मिस्तत् सर्वत्र वेदच्छायासस्पर्शीत्यर्थः । वेदस्य परभागवत्तासूचकमिदं विशेषणम् । 'निगमो वेद आम्नाय आगमानुश्रवावपि' इति रत्नाकरः। अन एव अद्भुत आश्चर्यम । सखीभि संलपित अप्सरोवताररूपाभिः सह सलाप । ' यदनुभूतिरसेन समन्यत शरण गादवशैशवयौवने' इति तृती. यसर्गोक्तरीत्या प्रथमसलापमारभ्य गोपकुमारिकाभि. सहैव क्रीडेति व्यञ्जयितु सखीभिरिति विशेषणम् । वर्णस्वरादिव्यवसायभूम्ना वर्णा अकारादयः खरा उदात्तादय आदिशब्देन मात्रादयो गृह्यन्ते तेषा व्यवसायो निश्चयः व्यक्ततेति यावत् , तस्य भूम्ना प्रचयेन । शिक्षाविदा शिक्षानाम वर्णानां स्थानकरणप्रयत्नादिवोधको वेदाझविशेषः, तदभिज्ञानाम् । अत्र्य मुख्यम् । शिक्षणं आसीत् । एव स्वरवर्णाद्यभिव्यक्त्या वेदोच्चारण कर्तव्यमिति लक्षणज्ञानामपि शिक्षाकरमभवदित्यर्थः ।। १७ ।। तमीषदुत्थाय निलीनमारा संप्रेक्ष्यदन्ताकुरचारुहासम् । सनातनी दृष्टिमनन्यदृष्टिः सानन्दमालोकत नन्दपत्नी ॥ १८ ।। तमिति । नन्दपत्नी यशोदा। ईषत् उत्थाय । आरात् ममीपे । निलीन पुनरग्यशक्त्यभिनयेनोपविष्टम् । सम्प्रेक्ष्यैः दृश्यैः दन्तानां अडरैः चारुहासम् । सनातनी दृष्टि लोकानामनपायिदृष्टिरूप, दृष्टिवत्सदा प्रकाशकत्वात्प्रियत्वाच । 'चक्षुर्देवानामुत माना मिति श्रुतिः । तं कृष्णम् । अनन्यदृष्टिः अन्यनिरपेक्षदृष्टिः सती । सानन्द आलोकत सप्रमोदमपश्यत् । अनन्येति नैरपेक्ष्यार्थकनसमासः ॥ १८ ॥